SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ १६ रामचन्द्रसूरिविरचितं ॥ अथ द्वितीयोऽङ्कः ॥ ( ततः प्रविशति गृध्राक्षः । ) गृध्राक्षः -- ( उच्चैः स्वरं ) भो भो आश्रमवासिनः ! स्वयं वः कुलपतिः समादिशति । अद्य खलु सान्तःपुरः पाशपाणिः संक्रीडितुमिह समायातवान् । ततः सर्वैरपि कुशप्रसून समिघः समादाय पुरुषैरहोरात्रमेकमुटजाभ्यन्तर एव स्थातव्यम् । ( नेपथ्ये ) यदादिशति कुलपतिः तदनुतिष्ठामः । गृध्राक्षः -- ( विचिन्त्य ) मकरन्दस्यापि द्रविणमपहर्त्तव्यमेव (१) । ततस्तावप्यज्ञातवरुणद्वीपव्यवहारावतिथी विशेषतो निवारयामि । ( उच्चैः स्वरं ) भो भोः तपोधनाः ! तावप्यतिथी कचिदपि तिष्ठत इति जानीत | ( नेपथ्ये ) एतौ तौ देवतायतनजगत्यां तिष्ठतः । ( ततः प्रविशति मित्राणन्दो मैत्रेयश्च । ) मित्राणन्दः - ( मैत्रेयं प्रति ) पश्य पश्य, ग्लास्नुध्वान्तततिर्मुखेषु ककुभां स्थास्नुप्रतापोच्चयो मीलत्युत्पलिनीषनं कमलिनीखण्डं समुन्मीलति । मज्जत्यम्बरवारिधावुदुगणो दिक्चक्रमुन्मज्जति प्राचीं चुम्बति चण्डरोचिषि जगद्वैचित्र्यमालम्बते ॥१॥ गृभ्राक्षः - भो भो अतिथी ! भवद्भयां त्वरिततस्मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy