SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ १ अरः] कौमुदीमित्राणन्दम् । सप्पहावं रयणं जेण वीसंभ करेदि । गजपादः-सार्थवाह ! नाईसि कुलपतेः प्रसादभङ्गमाधातुम् । कुलपतिः-चत्स! श्रेयसि मुहूर्ते ते विवाहमङ्गलविधिः। इदानीं तावदध्वश्रमापगमाय पर्णशालामनुसर । भो भोस्तपोधनाः! अभ्यक्ति इङ्गदीस्नेहेन पयोधिपाय:संजातलावण्यभङ्गान्यतिथीनामङ्गानि । पाययध्वमध्वश्रमापगमपटीयांसि नालिकेरीफलाम्भांसि । वत्से कौमुदि! त्वमपि क्रीडान्तरमनुतिष्ठ। (नेपथ्ये ) भावत्त त्वरितं तटेषु जलधेः स्वर्लोकधात्रीरुहः पुष्पाणां प्रकरं परं स्थगयत स्वच्छै रजांस्यम्बुभिः। पुंसः कर्मकृतोऽपि रक्षत बत ! स्वेच्छाप्रचारं चिरं शुद्धान्तेन समं समेष्यति यतोदेवःप्रतीचीपतिः॥२०॥ कुलपतिः- ( आकर्ण्य) कथमयं मचेताः संक्रीडितुमात्मनो द्वीपमधितिष्ठति । (विमृश्य ) वयमपि तपोभृतां प्रचार निवारयितुं प्रक्रमामहे, सान्ध्यं च विधिमनुतिष्ठामः । (इति निष्क्रान्ताः सर्वे ।) प्रथमोऽङ्कः समाप्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy