________________
१४
रामचन्द्रसूरिविरचितं
सत्यवाह ! अत्यि बहु मंतिदव्वं, परं दाणि नावसरो। एदं खु संखेवेण मंतेमि । अप्पा मए तुह समप्पिदो । अउ वरं जं ते पडिहासइ तं करिज्जासु ।
मित्राणन्दः-(सरोमाञ्चं) आर्ये ! मयापि धनं जीवितं च तवोपनीतमतस्त्वमपि यदभिरुचितं तद्विदध्याः।।
कौमुदी-(क) तावस्सं अहिप्पायाणुरोहेण अहं पि सव्वं करिस्सामि । दोणि उण लहुं मिल्लेहिं (ह) दविणजायं, जेण बाहिं नीहरामो।
(तथा कृत्वोभौ निर्गच्छतः।) कुलपतिः-वत्स मित्राणन्द ! परिणतवयसो वयं कृतमायोपवेशननिश्चयाः। इयं च प्ररूढप्रौढयौवना स्वानुरूपं पतिमनासादयन्ती ताम्यति वराकी पुत्री मे कौमुदी। तस्याः पाणिग्रहणेन सफलयितुमर्हसि मत्र्यलोकावतारम् ।
मित्राणन्दः-( सरोमाञ्चं ) भगवन् ! कोऽयमस्मास्वज्ञातकुलशीलेषु प्रसादातिरेकः ।
कौमुदी-(स्वगतं) (ख) पभाए अप्पेभि एदस्स किं पि मिदानीं नावसरः । एतत्खलु संक्षेपेण मन्त्रयामि । आत्मा मया तव समर्पितः । अतः परं यत्ते प्रतिभासते तक्रियताम् ।
(क) तदवश्यं अभिप्रायानुरोधेनाहममि सर्व करिष्यामि । द्वौ पुनः लघु मुञ्चतां द्रविणजातम् , येन बहिनिःसरामः ।
(ख) प्रभातेर्पयामि एतस्य किमपि सप्रभावं रत्नं येन विश्रम्भं करोति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org