SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कौमुदीमित्राणन्दम् । ( प्रविश्य कृतोष्णीषो ) वणिग्– भगवन् ! प्राप्ता देशान्तरादपरे सहायाः तदुपनय न्यासीकृतं वित्तम् । १ अङ्कः] गजपाद: - ( सावहेलं ) यथैव त्वया मुक्तं तथैवोटजाभ्यन्तरे गत्वा गृहाण । ( वणिग् मध्यतो वित्तमादाय कुलपतिं प्रणमति । ) कुलपतिः - वत्स ! यथाबद्धमेव प्राप्तं त्वया द्रविणम् १ | वणिग् – किमिदमनात्मोचितमुच्यते ? । दुस्तपतपःपरकलितस्य स्वर्गापवर्गशमणो भगवतः पांशुप्रायेषु मर्त्यकीटानां विभवेषु को नाम नामः संभवति १ । तद् व्रजामि युष्मत्यभावप्रत्यस्तप्रत्यूहव्यूहः स्वपुरीम् । ११ कुलपतिः - ( सप्रश्रयमिव ) शिवास्ते पन्थानः । ( वणिग् निष्क्रान्तः । ) मित्राणन्दः - भगवन् ! सफलतां प्रयातु मे प्रार्थनालेशः । ( प्रविश्य कुन्दलता कौमुदी [ च ] प्रणमति ( तः ) | ) मित्राणन्दः - ( मैत्रेयं प्रति ) सैवेयं वनिता यां दोलाधिरूढामपश्याम । ( पुनः साश्चर्य ) केयमनभ्रा नेत्रोत्पलानां सुधातृष्टि: ९ । कुलपतिः वत्से कौमुदि । समानवयः शीलाकारधारिणः सार्थवाहतनयस्यास्य स्वयं प्रथय महतीमातिथेयीम् । कौमुदी - ( तिर्यगवलोक्य स्वगतं ) ( क ) कटरि ! (क) कटरि ! अङ्गचक्रिमा । अहो ! विलासविदग्धिमा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy