SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ १ अः ] कौमुदीमित्राणन्दम् | कुलपतिः - सुपन्थाः समाश्रितस्तत्रभवता भवता । निजभुजदण्डाभ्यां हि वणिजां द्रविणोपार्जनं मण्डनं न तु खण्डनम् । मित्राणन्दः -- अवगाह्य च मध्यमुदन्वतो भगवतः प्रवइणे विशरारुतामधिगतवति गृहीतस्वापतेयसारः कल्लोलान्दोलितं मैत्रेयेण सार्धं फलकमेकमधिरूढः सप्तभिरहोभिरहं पारमधिगतवान् । मकरन्दस्य तु किमपि वृत्तमिति न जानीमः । कुलपति : - महाभाग ! प्रशस्तलक्षणो भवान् नास्पदं विपदाम्, अतः समुपार्जितमभूतद्रविणो ध्रुवं संघटिष्यते ते परमप्रेमपात्रं मित्रं मकरन्दः । मैत्रेयः --- यदादिशति कुलपतिस्तदस्तु । ( नेपथ्ये ) हो बटवः ! प्रवर्तयत वर्णाश्रमजुषामतिथीनां सपर्यार्थ यथौचित्यं पशुविशशनानि । मित्राणन्दः -- ( अपवार्य सोद्वेगं ) मैत्रेय ! कोऽयमुभयलोक प्रतिपन्थी पापव्याहारः १ । धिक् तानमुष्य सुहृदो नरकैकमार्गान यैः शास्त्रिभिः पशुवधोऽयमिहोपदिष्टः । तानप्यमून्मुनिमिषश्वपचान् विचार वन्ध्यान् धिमेव खलु यैरयमाहतश्च ॥ १७ ॥ ( पुनः कुलपर्ति प्रति ) अशेषमपि कल्याणमस्माकं कुलप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy