SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं तुन्दिल:नासान्तः स्थितलोचनो गुरुजटाजूटाटवी मेखलानीडान्तः कलविङ्ककेलिकलहैर्व्यालोलमत्राक्षरः । विश्रम्भभ्रमदेणशावक कुलव्यालेह निर्लेपितस्कन्धोरः करपाद भालतिलकः सोऽयं पुरस्तान्मुनिः ॥ वामतश्चायं कुलपतेरेव भ्राता गजपादः । ( ततः प्रविशति (न्ति) कुलपतिर्गजपादप्रभृतयश्च तापसाः । ) तुन्दिल : - ( अपवार्य) प्रभूतप्रधानधनाविवैतौ लक्ष्येते । कुलपतिः -- तर्हि सुतरां नः संभ्रममता [म् ] | ( उभौ प्रणमतः । ) A गजपाद: - ( सादर मिव ) इदमासनमास्यताम् । कुलपतिः - ( सप्रसादमिव मित्राणन्दं प्रति ) अस्तु स्वस्ति शुभोदयाय भवते संदृष्टयूयं वयं जाताः साम्प्रतमद्भुतामृतरसव्यासे कदृप्यदृशः । कुत्रत्योse ? किमर्थमद्य स भवानस्माकमत्राश्रमे संप्रातः १ प्रथयामि सामसुभगां कामातिथेयीं त्वयि । ॥ मित्राणन्दः - ( सविनयं ) भगवन् ! कौतुकमङ्गलनगराधिवासिनः क्रमागताद्भुतवैभवस्य जिनदासनाम्नः परमधार्मिकमकाण्डस्य वणिजो मित्राणन्दनामा सूनुरहम् । अयं चास्मपुरोहिततनयः शकुनमन्त्रकुशलो मैत्रेयः । उन्मीलितयौवनवाहं प्रभूतद्रविणोपार्जनाश्रद्धालुरतन्द्रालुना समानकुलनीलविभवेन मकरन्दनाम्ना वालवयस्येन समं यानपात्रमधिरूढः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy