SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ १ अरः] कौमुदीमित्राणन्दम् । पलभ्या। (नेपथ्ये) स्वागतमतिथिभ्याम् । मैत्रेयः-कयमयं तापसः शब्दायते । (ततः प्रविशति तुन्दिलः । (उभौ प्रणमतः ।) तुन्दिल:-स्वस्ति यजमानाभ्याम् । मित्राणन्दः-मुने ! देशान्तरिणो वयमनभिज्ञा अत्रत्यवृत्तान्तस्य । तत्कथय कोऽयं द्वीपः १, कथं च निर्मानुषमचारः। तुन्दिलः-महाभाग ! भगवतः पाशपाणेवरुणाभिधानोऽयं क्रीडाद्वीपः । सततं च सान्तःपुरः पाशपाणिरत्र क्रीडवीति ब्रह्मचारिणः तपोधना एव प्रतिवसन्ति, न गृहमेधिनः। इदं च प्रशान्तविरोधाभिधानमाश्रमपदम् । घोरघोणो नाम कुलपतिः सततमधिवसति । तदागच्छत यूपम् । पश्यत ब्रह्माण्डमाण्डोदरसंचरिष्णुयशसः कुलपतेनिःशेषकल्मषच्छिदालङ्कमीणां क्रमाम्भोजयुगलीम् । ( सर्वे आश्रमाभिमुखमुपसर्पन्ति । ) मित्राणन्दः-(साश्चर्य) जीर्यत्कर्कटपच्यमानचरवः संरक्ष्यमाणोटज द्वारास्तर्णकपक्तिभिः शुककुलैरध्याप्यमानद्विजाः । एते ते स्थगयन्ति होमसुरभीहम्भापरीरम्भण कारोदारिभिरध्वरस्तवरवैदिग्मण्डलीमाश्रमाः ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy