SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं लक्ष्मीः किं पितुरम्बुधेः प्रतिकलं कूलेषु संक्रीडते ? कन्या कापि किमस्य खेलति मुहुर्देवस्य यादःपतेः। द्वीपस्यास्य पयोधिरोधसि कृतस्थानस्य वेलोच्छल मानारत्ननिधेः किमत्रभवती लीलायते देवता॥११॥ मैत्रेयःकाऽप्येषा सरुषः प्रभाववशतो देवस्य दैत्यस्य वा लोके शोकमलीमसेञ मनुजीभावं दधौ देवता । तेनेयं सुरलोकवैभवपरीरम्भाकुलोचैस्तरां दोलोत्सालमिषेण खेचरगतिप्रागल्भ्यमभ्यस्यति ॥१२॥ मित्राणन्दःएतां निसर्गसुभगां विरचय्य वेधाः शङ्के स्वयं स भगवानभिलाषुकोऽभूत् । तेनापरग्रहभयाद्वियदकदोला दोलायितैरमनुजग्रहणां चकार ।।१३।। (विमृश्य) यथेयं निरुद्धदोलाकेलिः प्रतिमुहुरस्मान् कटाक्षयति तया व्यक्तमनयाऽपि वयं दृष्टाः । तदुत्तीर्य नेदीयांसो भवामः । मैत्रेयः कथमियमुत्तीर्णा दोलातः । मित्राणन्दः-न केवलमुत्तीर्णा तरुभिस्तिरोषाय कचिदपि गता च । हा! हताः स्मः। अकाण्डकोषसंरुद्धचेतसा बेघसा कन्यारत्नमिदमुपदर्य त्वरिततरं तिरोधाय सत्यमस्माकमध यानपात्रभङ्गाः कृतः । कुतः पुनरियमस्माभिरु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy