SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं सापदः परिपच्यन्ते गरीयस्योऽपि संपदः ॥६॥ (नेपथ्ये) विवेकोपनिषदमभिहितवानसि । सूत्रधारः-कथमयं मित्राणन्दभूमिकावाही नर्तकः सन्दायते । तदेहि मारे ! करणीयान्तरमनुतिष्ठामः। ( इति निष्कान्तौ ।) ॥ आमुखम् ॥ ( ततः प्रविशति मित्राणन्दो मैत्रेयश्च ।) मित्राणन्दः-परमार्थोऽयम्अकृताखण्डधर्माणां पूर्वे जन्मनि जन्मिनाम् । सापदः परिपच्यन्ते गरीयस्योऽपि संपदः ॥७॥ (विमृश्य मैत्रेयं प्रति) प्रयाणप्रारम्भनिरूपितस्य शुभोदर्कसंसचिनस्तस्य, त्वदीयस्य शकुनस्य तदिदं यानपात्रभङ्गावेदिवं शुभमभूत् । मैत्रेयः-सार्थवाहपुत्र! मास्म विषीद, अस्तमयति पुनरुदयति पुनरस्तमुपैति पुनरुदेत्यर्कः । विपदोऽपि संपदोऽपि च सततं न स्थास्नवः प्रायः ॥८॥ तदेहि जानीमः कोऽयं द्वीपः १ । ( इति परिकामतः ।) मित्राणन्द:-(विलोक्य) कथमिदं पुरो देवतायतनम् १, सदस्य जगत्यां स्थित्वा मानुषं कमपि विलोकयामः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy