SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १ अहः ] कौमुदीमित्राणन्दम् । सूत्रधारः-(विहस्य ) प्रकरणस्यास्य सरसतायां किमुच्यते । यतः प्रबन्धानाधातुं नवभणितिवैदग्ध्यमधुरान् __ कवीन्द्रा निस्तन्द्राः कति नहि मुरारिप्रभृतयः । ऋते रामानान्यः किमुत परकोटौ घटयितुं रसानाट्यप्राणान् पटुरिति वितर्को मनसि नः ॥३॥ अपि चप्रबन्धा इक्षुवत्मायो हीयमानरसाः क्रमात् । कृतिस्तु रामचन्द्रस्य सर्वो स्वादुः पुरः पुरः॥४॥ नट:-( सावहेलं ) भाव ! परोपनीतशब्दार्थाः स्वनाम्ना कृतकीर्तयः । निबदारोऽधुना तेन विश्रम्भस्तेषु कः सताम् ? ॥५॥ सूत्रधारः- मार्ष ! नास्य पर्यनुयोगस्य वयं पात्रम् । अत्रार्थे प्रबन्धविधानसमानकालाः सुमेधस एव प्रमाणम् । नटः-( सविषादं ) भाव ! निर्विण्णोऽस्मि तेनामुनाऽपदे केशावेशदुर्भगेन शैलूषविद्यावैभवोपभोगेन । ततस्ता कामपि क्रियामनुतिष्ठ श्रेष्ठां यथा विश्रान्ताशेषविपदं श्रायसी संपदमासाद्य सततसंनिहितमित्रकलत्रस्वापतेयः सुचिरममन्दमानन्दमुद्हामि । सूत्रधार:-( साक्षेपं) मार्ष ! संसारस्वरूपपरिवानदै. दग्धीवन्ध्य इव व्याहरसि । ननु अकृताखण्डघमाणां पूर्वे जन्मनि जन्मिनाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy