SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं प्रसादय मचल भाग्यमागल्भ्यलभ्यानां सभ्यानां मनांसि । ( विमृश्य ) यथावस्थितमादिशन्ति सभ्याः । दुर्जनोपनीतक्लेशकोटिकण्टकिला खल्वियं संसाराटवी । गरीयसे च फलायोपनिबद्धकक्षेण प्रेक्षापूर्व कारिणा ( लोचने निमील्य ) सोढव्या एव प्रत्यूहव्युपनिपत्तयः । तदहं गृहं गत्वा प्रबन्धविशेषं कमपि पर्यालोचयामि । ( नेपथ्ये ) २ कृतं पर्यालोचनेन । अस्ति खलु श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनविधानवेधसः श्रीमदाचार्य हेमचन्द्रस्य शिष्येण प्रबन्धशतविधाननिष्णातबुद्धिना नाव्यलक्षण निर्माणापातावगाढसाहित्याम्भोधिना विशीर्णकाव्यनिर्माण [ निस् ]तन्द्रेण श्रीमता रामचन्द्रेण विरचितं कुतूहलसहस्रनिधानं कौमुदीमित्राणन्दाभिधानं निःशेषरसभावप्रदीपकं द्वितीयं रूपकम् । सूत्रधारः - कथमयं वत्सस्ताण्डकः प्रबन्धविशेषं निर्णयति ? | ( प्रविश्य ) नटः- भाव ! प्रणमामि । सूत्रधारः - मार्ष ! कौमुदी मित्राणन्दनान्नः प्रकरणस्याभिनये कृतनिश्चयोऽसि ? | नटः - सन्ति नामात्र भूयांसि सामाजिकजनमनः कौतुकानुबन्धीनि कथावस्तूनि । रसनिवेशभावाभावयोः पुनर्भावः प्रमाणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy