SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ द्वन्यकत्रेत्यपि संभाव्यते । प्रबन्धशतस्य प्रबन्धानां शतमित्यर्थों घटते कथमस्मिन् प्रबन्धानां शतमिति पुस्तकाभावेन न ज्ञायते । न्यायग्रन्थः-द्रव्यालङ्कारः सवृत्तिकः, बौद्धमतखण्डनरूपो गुणचन्द्रसाहाय्येन विरचितः, जेसलमेरुदुर्गस्थताडपत्रीयपुस्तकभाण्डागारे खण्डित उपलभ्यते । एतद्वयतिरिक्ता अन्येऽपि अन्या विरचिता सन्ति न वेति न ज्ञायते । संशोधनसमयेऽस्य पुस्तकद्वयं प्राप्तम् । तत्राचं क-संज्ञकं पचनस्थवाटीपार्श्वनाथभाण्डागारसत्कमेकविंशतिपत्रात्मकमशुद्ध प्राचीनं श्राद्धवर्यवाडीलाल-हीराचन्द-दलालद्वारा संप्राप्तम्। द्वितीयं ख-संज्ञकं श्रीयुत-तनसुखराम-मनःसुखराम-त्रिपाठी, बी. ए. महाशयसत्कमशुद्ध प्राचीनं पञ्चविंशतिपत्रात्मकं द्वादशभिः पौर्विरहितं श्रीयुत-चीमनलाल-डाह्याभाई-दलाल, एम. ए. महाशयद्वारा संप्राप्तम् । एतत्पुस्तकप्रेषकयोः सज्जनयोरुपकारं न प्रस्मरामः । पुस्तकद्वयसाहाय्येन संशुद्धीकृतेऽप्यस्मिन् याः काश्चनाशुद्धयो दृष्टिपथमवतरेयुस्ताः संशोधयन्तु धीमन्त इति प्रार्थयते श्रीमच्चतुरविजयचरणकमलोपासकः पुण्यविजयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy