SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ॥ मईम् ॥ ॥ निवेदनम् ॥ कौमुदीमित्राणन्दनान्नो द्वितीयरूपकस्यास्य निर्माता श्रीमद्- हेमचन्द्राचार्यशिष्यः श्रीमान् रामचन्द्र एवेत्यामुखान्तर्गतेन " अस्ति खलु श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनविधानवेषसः श्रीमदाचार्यहेमचन्द्रस्य शिष्येण प्रबन्धशतविधाननिष्णातबुद्धिना नाव्यलक्षणनिर्माणापातावगाढसमस्तसाहित्याम्भो घिना विशीर्णकाव्यनिर्माणनिस्तन्द्रेण श्रीमता रामचन्द्रेण विरचितं कुतूहल सहस्रनिधानं कौमुदीमित्राणन्दाभिधानं निःशेषरसभावप्रदीपकं द्वितीयं रूपकम् । " इत्यनेन पाठेन स्पष्टमेव प्रतीयते । 1 सतासमयस्त्वेषां हेमचन्द्राचार्यसत्ता समय एव । एतद्वन्थकर्त्रा श्रीमता काव्य-नाटक-नाट्य-न्यायग्रन्था विनिर्मिताः सन्ति । ते चैते, काव्यम् - कुमारविहारशतकम् । नाटकानि - रघुविलास -नळविलास - यदुविलास - कौमुदीमित्राणन्दनिर्भयभीमव्यायोग - सत्यहरिश्चन्द्र मल्लिकामकरन्द- वनमालिकानाटिकाः । वनमालिकानाटिका अमरचन्द्रकृतेति केचिन्मन्यन्ते । नाव्यग्रन्यः - नाट्यदर्पणं गुणचन्द्रसाहाय्येन कृतम् । प्रबन्धशतं 4" रामचन्द्रकृतं प्रबन्धशतं द्वादशरूपकनाटकादिस्वरूपज्ञापकम् " इति एकस्मात्प्राचीन हस्तलिखितपत्राज्ज्ञायते । नायं ग्रन्थः सांप्रतं दृश्यते । प्रबन्धशतकर्तृत्वख्यातिरप्येतद्धन्यविरचनेन प्राप्ता स्यादेत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy