________________
१० अरः] कौमुदीमित्राणन्दम् । ११९ वक्राम्भोजमुदस्य पश्य सुदति ! स्वर्भूर्भुवश्चक्षुषां साफल्यैकनिवन्धनं भगवतश्चेतो वो मन्दिरम् ॥१०॥
(आत्रेयी सव्रीडं तूष्णीमास्ते ।) सिद्धाधिनाथः-(सोत्कण्ठं) वर्क विलक्ष्म सततोदयदर्पिते च
नेत्रे शठेन सृजता मदिरेक्षणायाः। धात्रा कलङ्कविनिमीलनपांसुराणां
किं नाम नापकृतमिन्दुसरोरुहाणाम् ? ॥११॥ (पुनरपवार्य ) लम्बस्तनि ! सर्वमपि कामकर्तव्यं शिक्षितस्त्वया वध्यः ।
लम्बस्तनी-(क) अप इं। सिद्धाधिनाथ:-( आत्रेयी प्रति ) भद्रे ! स्वयं समिहिते भगवति पञ्चबाणे कोऽयं प्रियसम्पर्कनिमित्तं क्लेशाभ्युपगमः १ । अभ्युपगच्छ स्वच्छेन चेतसा सत्यावपातस्य भगवतः पञ्चवाणस्य पुरुषोपहारम्, येनायं प्रसद्य प्रयच्छति से प्रियपतिम् । अपि च यस्यैवायं भगवाननक स्वयं स्रजमुपनेष्यते स एव ते पतिः।
लम्बस्तनी-(ख ) वत्से ! भोदु एदं, पिच्छ भयवदो पहावं ।
(क) अथ किम् । (ख) वत्से ! भवत्वेतत्, पश्य भगवतः प्रभावम् । १ख-पेच्छ ' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org