________________
१०८
रामचन्द्रसूरिविरचितं
बर्बर : - (क) भट्टा ! पाणाहिंतो पि पियदले एगे मे भाया । से लूशिय गिहादो नीशलिदे ।
युवराजः - ततः किं ? |
बर्बर:- ( ख ) शे दाणिं वेलंधरे पविष्टे चिष्टदि । युवराजः - ( मकरन्दमुद्दिश्य ) एकस्तावदयं वैदेशिको वेलन्धरे प्रविष्टोऽस्ति ।
बर्बर : - (ग) हा भाय ! चिला दिष्टो सि । ( इत्यमिदधानो मकरन्दं परिरभ्य तारस्वरं प्रलपति । )
युवराज : - ( ससम्भ्रमं ) कथमयं मकरन्दो म्लेच्छजातिः ।। दुरात्मनाम्ना म्लेच्छेन नरदत्तस्य वेश्मनि भोजनशयनाभ्यां वर्णशङ्करः कृतः ।
मकरन्दः - (स्वगतं ) शूलवेदनापहारेण मयि पक्षपात्यपि कुमारस्तेनामुनोपलिङ्गान्तरेण प्रतिपक्षतां यास्यति ।
विरलविपदां कथञ्चिद्विपदो हर्तु समीहते लोकः । प्रतिपदनवविपदां पुनरुपैति मातापि निर्वेदम् ॥१०॥ तदतः परं कृतमुपायान्तरविमर्शनेन । यद्भाव्यं तद्भवतु । युवराजः -- ( प्रतीहारं प्रति ) उपनय दुरात्मानमेनं
श्वपाकाय ।
(क) भर्चः ! प्राणेभ्योऽपि प्रियतरः एको मे आता । स रुषित्वा गृहान्निःसृतः ।
(ख) स इदानीं वेलघरे प्रविष्टः तिष्ठति । (ग) हा भ्रातः ! चिराद् दृष्टोऽसि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org