SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ८ महः ] कौमुदीमित्राणन्दम् | ९५ कापालिकः - अद्य पुनर्निशीथसमये मत्रेण तत्रेण च तं दुरात्मानमाकृष्य मोचयिष्यामि निःशेषमप्यपहृतं यौवतम् । ( पुनर्विमृश्य ) कोऽत्र भोः ! । ( प्रविश्य ) तापसः - एषोऽस्मि । कापालिकः - मायामय ! आकारय कियतीरपि युबतीयं ताभिर्विदितमार्गाभिः सह पाताळवेश्मनि प्रविशति । ( तापसो निष्क्रान्तः । ) ( ततः प्रविशन्ति पातालभवनादागमनं नाटयन्त्यः पञ्चषा योषितः । ) ( योषितः कापालिकं प्रणम्य कौमुदीसुमित्रयोः पादौ संस्पृशन्ति । ) कापालिक : - ( युवर्ति प्रति ) व्रज पातालभवनमेताभिः सह । P मकरन्दः - भगवन् ! एते अपि कौमुदीसुमित्रे यामद्वयं पातालगृहमधितिष्ठताम् । कापालिक : - (स्वगतं ) प्रियं नः । ( प्रकाश ) यद्भवते रोचते तदस्तु । ( सर्वाः पातालभवनप्रवेशं नाटयन्ति । ) कापालिक:-( विमृश्य ) सार्थवाह ! इदानीं विद्याधराकर्षणहोमसमयः । ततस्त्वया क्रियमाणं साहायकं किमपि मृगयामहे । मकरन्दः – प्रकृत्यैवाहमकुतोभयस्ततः स्वैरमादिशत १ ख- ' भुबमे ' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy