SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं काशी क्षमभिरमेत विद्याधरपदकामः ' इत्यलीकां पापीयसीं वैदिकीं वाचमाकर्ण्य पृथिव्यास्तरुणं स्त्रैणमपहरति । परदारव्रतं चानुरुन्धानो भर्त्तारं व्यापाद्य सभर्तृकामभर्तृकां करोति । इदं च नगरं तेन दुरात्मना विगतमानुषप्रचारं कृतम् । तवापि वनितानिमित्तं व्यसनं सम्भावयामि । मकरन्दः - भगवन् ! स पुनः किमर्थमिदमनार्य कर्म समाचरति १ । कापालिकः -- महाभाग ! परस्य शर्मणः सत्यं प्रत्यूहो हरिणीदृशः । rasपि तद्यदि कापि तदा ता एव हेतवः ॥ १० ॥ अपि च ताभ्यः सकर्णः को नाम कामिनीभ्यः पराङ्मुखः १ । भूर्भुवः स्वर्विभूतीनां सौभाग्यं यत्प्रसादतः ॥ ११ ॥ पुरुषः-- समादिशन्तु मे कृत्यं योगीन्द्रपादाः । कापालिक ः– सप्तमं दिनमिदं विद्याधराधमाकर्षण विधिमनुतिष्ठतामस्माकम्, तदियं वे पत्नी पुरोवर्त्तिनीनामेकचक्राकामिनीनां मध्ये यामद्वयमस्मत्पातालभवनमधिवसतु । एकाकिनः पुनः पुरुषस्य न समुचितः परदाराणां मध्येऽधिवासः । ततस्त्वं कियन्तमपि कालं कचिदपि गत्वातिवाहय । ( पुरुषो निष्कान्तः । ) मकरन्दः -- ( सभयमात्मगतं ) ममापि कौमुदीसुमित्रे पातालभवनमधिवासयितुष्ठचिते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy