SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ८ अहः ] कौमुदीमित्राणन्दम् | मकरन्दः - ( अञ्जलिमाधाय ) भद्राम्भोजमृणालिनी त्रिभुवनावद्यच्छिदाजाह्नवी लक्ष्मी व्रणशृङ्खला गुणकलावल्लीसुधासारणिः । संसारार्णवनौर्विपात्तलतिका निस्त्रिंशयष्टिश्चिरं दृष्टिर्नाभिसुतस्य नः प्रथयतु श्रेयांसि तेजांसि च ॥५॥ ( पुनर्विचिन्त्य ) आर्ये कौमुदि ! देवतायतनजगत्यां स्थित्वा विलोकयामः कस्यापि मानुषस्य सवारम् । (विलोक्य) कथमयमितस्ततो दत्तदृष्टिर्वदुः पर्यटभवलोक्यते १ । ( प्रविश्य ) बदु: - स्वस्ति यजमानेभ्यः । मकरन्दः - बटो ! स्पष्टं प्रकटय त्रासविस्मयकारिणः पुटभेदनस्यास्य स्वरूपमिदानीमेव देशान्तरादुपेयुषामस्माकम् । बहु: - महाभाग ! महानयं कथाप्रबन्धः । तमेवं योगीन्द्र एव युष्मभ्यमावेदयितुमलम्भूष्णुः । तदेत यूयम् । पश्यत देवतायतनोपवननिबद्धवासं योगीन्द्रम् । ( सर्वे परिक्रामन्ति । ) ( ततः प्रविशति कापालिकः । ) कापालिकः - ( साश्वर्य ) Jain Education International ९१ आयं यत्किल बीजमन्धतमसक्लिभस्य दुःखोदधेश्वेतः पर्वणि तत्र कुत्रचिदपि श्लाघ्ये समुत्कण्ठते । बेषस्त्वेष नरास्थिहाररशनाताढङ्कचूडामणि प्रायः शंसति तापसीं स्थितिमहो ! रोमाञ्चिताः कौतुकैः ॥ ६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy