SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ८ महः ] कौमुदीमित्राणन्दम् । मकरन्दः - ( विमृश्य ) आर्ये कौमुदि ! कुळक्रमेणैवायं वर्मा शबरः । पवित्रेण चरित्रेण पुनः साधूनप्यतिशेते । इयन्तं हि द्रविणसमूहमुपनतं परित्यक्तुं साधवोऽपि तपस्विनः । कित परजीवितापहारिणः पकणचारिणः १ । द्रविणं मुश्वमानश्च हस्तमोचनपर्वणि । औचितीं निष्णबुद्धित्वमात्मनः प्रथयत्ययम् ॥ १ ॥ ( विमृश्य ) प्रिये सुमित्रे ! मातरं भ्रातरं च ते स्वनगरं प्रति प्रस्थापयन् वज्रवर्मा परं पुण्यमर्जितवान् । कौमुदी - (क) सहि सुमित्ते ! कत्थ ते पिउहरं १ । सुमित्रा - (ख) अलयउरनिवासिणो वणदेवस्स सत्थबाइस्स अहं धूआ विजयवम्मणा बंदिग्गाहेण आणीदा । मकरन्दः - ( पुरोऽवलोक्य साशङ्कं ) चैत्यानि ध्वजचुम्बिताम्बरतलान्यश्वेभमुच्छ्रङ्खलं हम्ण्यद्भुतवैभवानि विपणिपण्यैरगण्यैर्घना । सञ्चारस्तु न चत्वरे न च गृहे स्त्रैणस्य पौंस्नस्य च शङ्कात्रासवितर्कविस्मयकरः कोऽयं प्रकारः पुरः १ ॥ २ ॥ कौमुदी - ( सभयविस्मयं ) ( ग ) अज्ज मयरंद ! त किं नयरस्स मज्झं न पेक्खिदव्वं १ । ८९ ( क ) सखि सुमित्रे ! कुत्र ते पितृगृहम् ? । (ख) अलकपुरनिवासिनो वनदेवस्य सार्थवाहस्याहं पुत्री विजयवर्मणा बन्दिग्राहेणानीता । (ग) आर्य मकरन्द ! तावत् किं नगरस्य मध्यं न प्रेक्षितव्यम् ! | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy