SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं पल्लीपतिः-अयमस्माकं तर्हि जामाता। विवाहमा समयस्याः स्वदुहितुरस्मामिराधेयम् । (पुनर्लेखवाहकं प्रति) भद्र ! व्रज त्वम् । विज्ञपय युवराजाय । यया प्राप्तानि कियन्त्यपि मानुषाणि । तानि प्रेषयिष्यामः । वयमपि विवाहमङ्गलमाधातुं पल्लीमधितिष्ठामः । (इति निष्क्रान्ताः सर्वे ।) ॥ससमोऽङ्कः समाप्तः॥ ॥ अथ अष्टमोऽङ्कः॥ (ततः प्रविशति मकरन्दः कौमुदी सुमित्रा च ।) मकरन्द:-( विमृश्य ) कोऽत्र भोः । (प्रविश्य ) पुरुषः-(क) एसो चिष्टामि । आदिशेदु सत्यवाहे । मकरन्दः-अरे मागध ! इदानीं परिणतवया वर्तते दिवसस्ततो हि गत्वा नरदत्तम् । यथा, यावदयमेकचक्राया नगर्याश्चैत्यप्रासादप्राकारारामरामणीयकं कौमुदीसुमित्रयोरादर्शयामस्तावत्वया सार्थरक्षायां प्रयत्नो विधेयः। स्यविरब शम्बलं किमपि दत्वा रङ्गशाला प्रति प्रतिनिवर्तनीयः। (मागधो निष्क्रान्तः।) (क) एष तिष्ठामि । आदिशतु सार्थवाहः । १ ख-' एशे'। २ ख-शस्तवाहे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy