________________
रामचन्द्रसूरिविरचितं
चौरेभ्यो भयमेतस्यां राशोऽपि किमु मादृशाम् १ ॥२॥ ततः सर्वाभिरपि सर्वतो दत्तदृष्टिभिः पिहितनेपथ्याभिचंयमाभिश्च त्वरिततरं गन्तव्यम् ।
( सर्वाः सभयं परिक्रामन्ति ) बालकः - ( क ) अम्ब ! बुभुक्खिदो म्हि । ( वृद्धा हस्तसंज्ञया वारयति । )
बालकः -- ( तारस्वरं प्रलपन् ) अंव ! अपूपं देहि मे । स्थविर : - ( सरोषं यष्टिमुद्यम्य ) अरे ! तिष्ठ, मा रोदीः । अन्यथा कर्णावुत्पाटयिष्यामि ।
( बालकः सभयमास्ते । )
सर्पकर्णः - यथाऽयं भारग्नकन्धरः शनैः प्रचारी स्थविरस्तथा जाने सद्रविणोऽयं सार्थः । भवतु । स्थविरं पृच्छामि । ( उच्चैःस्वरं ) आर्य ! प्रस्थितोऽसि १ ।
क
७८
स्थविर : - (स्वगतं ) यथाऽयं तरलदृष्टिस्तथा जाने चौरणिधिः । ( प्रकाशं साक्षेपं ) किं तेऽस्मद्रमनचिन्तया १ । व्रज यत्र चलितोऽसि ।
सर्पकर्णः - नूनमयं मां ज्ञातवान् । भवतु । पल्लीपतये गत्वा विज्ञपयामि । ( इति विचिन्त्य शनैः शनैर्निष्कान्तः । ) स्थविर:- यदि मां तस्करा बध्नन्ति वा व्यापादयन्ति वा तदा बालकं गृहीत्वा सर्वाभिरपि पलायितव्यम् ।
(क) अम्ब! बुभुक्षितोऽस्मि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org