SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं बित्राणां पितृमित्राणां प्रकाशनेन । न मे पितरौ, न मे मित्राणि, किमुताहमेकाकी गगनगर्भादिव पतितः । ७४ मैत्रेयः - (स्वगतं ) महाकुलप्रसूतः खल्वयम्, महासप्रकृतिश्च कोsपि । ( पुनर्विमृश्य ) अपि नामायं कोऽपि जिनदासवर्गीणः संभवेत् ततो निर्बन्धेन पृच्छामि । ( प्रकाशं ) महापुरुष ! यत एव ते पवित्राणि पितृमित्राणि तत एवाकाटोपस्थिते मरणविदुरे समुद्धोषणीयानि । पुरुषः-- आर्य ! जिनदासो मे पिता । मित्रं मकरन्दो मैत्रेयश्व । मैत्रेयः - हा भ्रातः मित्रवत्सल मित्राणन्द ! कामिर्मा दुस्थामवस्थामधिगतोऽसि १ ( इत्यभिदधानः पुरुषं परिरभ्य तारस्वरं प्रलपति । ) सर्वे - ( ससंभ्रमं ) आर्यार्य मैत्रेय ! किमिदम् १ | मैत्रेयः - मण्डलाधिनाथ ! स एष मित्रं मे मित्राणन्दो यदर्थ यूयमभ्यर्थिताः । विजयवर्मा - ( ससंभ्रमं कृपाणेन स्वयं बन्धनानि त्रोटयति । पुनः सविनयं ) महापुरुष ! क्षमस्व यदस्माभिरज्ञातसंबन्धेरपराद्धम् । पुरुष :- ममैष कर्माण्यत्रापराध्यन्ति न यूयम् । विजयवर्मा अपराघोऽत्र नास्माकं न च प्राचीनकर्मणाम् । किन्तु कामरतेस्तस्य पापतत्रस्य मन्त्रिणः ॥ १८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy