SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ७ अङ्कः ] कौमुदीमित्राणन्दम् । ७५ ( पुनः सविनयं ) युष्मदर्थमियं विधृता मैत्रेयेण बत्सा सुमित्रा, तदेतामस्मिन्पवित्रे पर्वणि परिणयत यूयम् । मित्राणन्दः - अस्ति मे पुरापि कौमुदी नाम पत्नी । तदेता मदीयो भ्राता मकरन्दः परिणेष्यते । ---- ( नेपथ्ये सकोलाहलं ) सेनान्यः ! सप्तकृत्वः स्थगयत निखिलान् हास्तिकैर्गोपुरांग्रान् अश्वानश्ववाराः ! प्रगुणयत बहिः सौप्तिकोपप्लवाय । पादान्तान्पानृणुध्वं वपुरतिविकटैः कङ्कटैर्युद्ध के लिश्रद्धावर्धिष्णुदपास्तरलयत भटाः ! संयुगं सांयुगीनाः ॥ १९ ॥ ( प्रविश्य संभ्रान्तो ) मङ्गलकः - देव ! विपक्षावस्कन्दः प्राप्तः । विजयवर्मा - ( ससंभ्रमं ) व्रजत स्वं स्वं स्थानं यूयम् । वयमिदानीमभ्यमित्रीयतामाधास्यामः । ( इति निष्क्रान्ताः सर्वे | ) ॥ षष्ठोऽङ्कः समाप्तः ॥ ॥ अथ सप्तमोऽङ्कः ॥ ( ततः प्रविशति सर्पकर्णः । ) सर्पकर्णः -- (सखेदं ) १ क- गोपुरान्तान् ' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy