________________
भंडाईणव नयणाइयाण सवियारकरणमिह भणिय । कुक्कुइयं, तं कुणई जो सो सीहोव्व लहइ दुई ॥१॥ तथाहि;बहुपत्तपत्तसोहं ससिरीयं रायहं सकयसोहं । पउमंव पोयणपुरं भरहे पुरमत्थि सुपसिद्ध ॥२॥ तत्थथि धणयसिट्ठी वणव्य पिया य तस्स सोमसिरी । ताण तणओ सीहो मित्तो तस्सत्थिं सहदेवो । सहपं मुकीलिओ कीलणत्थयह अन्नया य तत्थेव । रइसागराभिहाणे उज्जाणे तेण सह पत्तो ॥४॥ कीलइ विविहेविलासेहिं जाव ता तत्थ सुणइ महुरझुणि । तो तयणुमारओ सो वच्चंतो पिच्छए सूरिं ॥ बहुमुणिवणपरियरियं छणससिबिंब तारयसणाई । धम्मंव मुत्तिमंतं देसतं भूरिभव्वाण ॥६॥ सग्गापवग्गमगं, तो तं नमिऊण तत्थ उवविहो । पुच्छइ सिंहो मूरि भयवं! मे संसय हरसु ।।७।। किं धम्मपि कुणतो लच्छिन्भंस लहेइ कोवि नरो?। लाभतरायवसओ लहइच्चिय भणइ तत्थ गुरू ॥८॥ तो सीहेणं भणियं लच्छिन्भंस लहेइ धम्मीवि । जइ पहु ! ता पज्जतं धम्मेण किलेसमूलेणं ॥९॥ तो भगइ मुणिवरिंदो जइवि हु धम्मतरायदोसेणं । होइ विहवस्स नासो पुणोवि धम्माउ पावेइ ॥१०॥ सविसेसं धणलाभं निच्छयसारं करेइ जइ धम्मं । दिटुंतो इह सिट्ठी मुणिदासो, सुणसु उवउत्तो॥११॥ तथाहि;देवविणिम्मियगुरुसुब्भथूभसोभाए महुरनयरीए । आसि मुणिदाससिट्टी अमुणियविहवपरिमाणो ॥१२॥ अविचलसम्मत्तधरो कम्मवसा तस्स अन्नया विहवो । सव्वोवि परिभट्ठो अवमाणपयं तओ जाओ ॥ लोयाणं बंधूणं नरवइणो नियसुयाण भजाए । किं बहुणा, पडिवयणपि तस्स नो देइ कोवि तहिं ॥१४॥
विटादानामिव नयनादिकानां सविकारकरणमिह भणितम् । कौकुच्यं, तत्करोति यः स सिंहवल्लभते दुःखम् ।। बहुपा(प)त्रप्राप्तशोभं सश्रीकं राजहंसकृतशोभम् । पद्ममिव पोतनपुर भरते पुरमस्ति सुप्रसिद्धम् ॥२॥ तत्रास्ति धनदश्रेष्ठी धनद इव प्रिया च तस्य सोमश्रीः । तयोस्तनयः सिंहो मित्त्रं तस्यास्ति सहदेवः ॥३॥ सहपांशुक्रीडितः क्रीडनार्थमथान्यदा च तत्रैव । रतिसागराभिधान उद्याने तेन सह प्राप्तः ॥४॥ क्रीडति विविधविलासर्यावत्तावत्तत्र शृणोति मधुरध्वनिम् । ततस्तदनुसारतः स वजन् पश्यति सूरिम् ॥५॥ बहुमुनिगणपरिकरितं क्षणशशिबिम्बमिव तारकासनाथम् । धर्ममिव मूर्तिमन्तं दिशन्तं भूरिभव्येभ्यः ॥६॥ स्वर्गापवर्गमार्ग, ततस्तं नत्वा तत्रोपविष्टः । पृच्छति सिंहः सूरिं भगवन् ! मे संशयं हर ॥७॥ किं धर्ममपि कुर्वल्लँक्ष्मीभ्रंशं लभते कोऽपि नरः ? । लाभान्तरायवशतो लभत एव भणति तत्र गुरुः ॥८॥ ततः सिंहेन भणितं लक्ष्मीभ्रंशं लभते धर्म्यपि । यदि प्रभो ! तदा पर्याप्तं धर्मेण क्लेशमूलेन ॥९॥ ततो भणति मुनिवरेन्द्रो यद्यपि धर्मान्तरायदोषेण । भवति विभवस्य नाशः पुनरपि धर्मात्प्राप्नोति ॥१०॥ सविशषं धनलाभ निश्चयसारं करोति यदि धर्मम् | दृष्टान्त इह श्रेष्ठी मुनिदासः, शृणूपयुक्तः ॥११॥ देवविनिर्मितगुरुशुभ्रस्तूपशोभायां मथुरानगर्याम् । आसीन्मुनिदासश्रेष्ठ्यज्ञातनिजविभवपरिमाणः ॥१२॥ अविचलसम्यक्त्वधरः कर्मवशात्तस्यान्यदा विभवः । सर्वोऽपि परिभ्रष्टोऽपमानपदं ततो जातः ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org