________________
सुपासनाह-चरिअम्मिमोत्तण तओ सिज्ज कुमरेणब्भुहिऊण पणया सा । तो जंपइ सा जीवियनाह ! किमेयं समारद्धं ? ॥९८॥ अभुट्टोणस्स इमो कोवसरो को व बहुपणामस्स? । नियअंगसंगमामयरसेण निव्ववसु मह अंगं ॥९९॥ नियविरहग्गिपलित्तं खणंपि मा सामि ! मं उवेहेसु । इहरा पिच्छिहिमि फुडं हिययं फुडिउं मयं चेव ॥ इय भणिरीए तीए कुमरोऽभिमुहंपि नो पलोएइ । जं सा मयणुम्मत्ता अज्जवि अरिहइ न उवएसं ॥१०१॥ तो अवहीरिज्जती कुमरेणं भणइ सा इमं वयणं । हुति हु सच्चपइन्ना सप्पुरिसा किर तुह सरिच्छा। उक्तं च:-- "सकृदपि यत्प्रतिपन्नं तत्कथमपि न त्यजन्ति सत्पुरुषाः । नेन्दुस्त्यजति कलङ्क नोज्झति वडवानलं सिन्धुः ॥" संजायमिमममचं मह विसए सामि ! मंदभग्गाए । अनह मं वाहरि परम्मुहत्तं कहं भयसि ? ॥१०३ । तो भणइ इमं कुमरो तुह दूईए पवजिउं वयणं । वाहरिया सि तुम इह किर तुह कहिऊण जिणधम्म।।१०४॥ दुच्चरियाउ इमाओ इह परलोए दुरंतदुक्खाओ । चित्तं नियत्तिऊणं ठाविस्सं सुद्धधम्मम्मि ।।१०५॥ सा भणइ करिजसु तंपि निव्वुइं सुहय ! मह जणेऊण ( नियअंगसंगमेणं तो कुमरो भणइ जा तुज्झ।।१०६। आ पाणिग्गहणाओ नरवइणोऽणंगतुल्लरूवस्स । पइदिवससंगमेणं जइ तित्ती नेय संजाया ॥१०७॥ सा चोरियरमियाओ मह अंगा होहिहित्ति दुब्बुद्धी । ता मुंच असग्गाहं सेवसु मग्गं निराबाहं ॥१०८। इय एवमुवक्कमिउं पुव्वुत्तपउत्तिगब्भिणं सुबहुं । कुमरेणं भणियावि हु भणेइ सा तुज्झ सव्वंपि।।१०९। काहामि अहं भणियं किंपुण सच्चवसु ताव तं वयणं । मह दूईए पुरओ जं भणियं, अन्नह असच्चे॥११०।
निजपृष्ठपश्चात् स्थापयित्वा ते अपि यवनिकान्तरिते । धृते कुमारेण, ततः संप्राप्ता राजपत्न्यपि ॥९७॥ मुक्त्वा ततः शय्यां कुमारेणाभ्युत्थाय प्रणता सा । ततो जल्पति सा जीवितनाथ ! किमेतत्समारब्धम् ? ॥ अभ्युत्थानस्यायं कोऽवसरः को वा बहुप्रणामस्य ? । निजाङ्गसंगमामृतरसेन निर्वापय ममाङ्गम् ॥१९॥ निजविरहाग्निप्रदीप्तं क्षणमपि मा स्वामिन् ! मामुपेक्षस्व । इतरथा द्रक्ष्यसि स्फुटं हृदयं स्फुटित्वा मृतामेव । इति भणित्र्यास्तस्याः कुमारोऽभिमुखमपि न प्रलोकते । यत्सा मदनोन्मत्ताऽद्याप्यर्हति नोपदेशम् ॥१०१॥ ततोऽवीर्यमाणा कुमारेण भणति सेदं वचनम् । भवन्ति खलु सत्यप्रतिज्ञाः सत्पुरुषाः किल तव सदृक्षाः ॥ संजातमिदमसत्यं मम विषये स्वामिन् ! मन्दभाग्यायाः । अन्यथा मा व्याहृत्य पराङ्मुखत्वं कथं भजसि! । ततो भणतीदं कमारस्तव दत्याः प्रपद्य वचनम । आहतासि त्वमिह किल तव कथयित्वा जिनधर्मम ॥१०४ दुश्चरितादस्मादिह परलोके दुरन्तदुःखात् । चित्तं निवर्त्य स्थापयिष्यामि शुद्धधर्मे ।।१०५॥ सा भणति क्रियतां तदपि निर्वृतिं सुभग! मम जनयित्वा । निनाङ्गसंगमेन ततः कुमारो भणति या तव ॥१०६। आ पाणिग्रहणाद् नरपतेरनङ्गतुल्यरूपस्य । प्रतिदिवससंगमेन यदि तृप्तिव संजाता ॥१०७॥ सा चौयरमिताद् ममाङ्गाद् भविष्यतीति दुर्बुद्धिः । तस्मान्मुञ्चासदाहं सेवस्व मार्ग निराबाधम् ॥१०८॥ इत्येवमुपक्रम्य पूर्वोक्तप्रवृत्तिगर्भ सुबहु । कुमारेण भणितापि हि भणति सा तव सर्वमपि ॥१०९॥ करिष्याम्यहं भणितं किन्तु सत्यापय तावत्तद् वचनम् । मम दृत्याः पुरतो यद् भणितम् , अन्यथाऽसत्ये ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org