________________
वीरकुमारकहा |
३७३
सो कुमरी भत्ता अणुरता तम्मि निच्छियं होही । तो पूइवि पट्टकरिं कुमरि आरोविडं उवरिं ॥ ५५ ॥ मुक्को निरंकुसो सो पुरओ वज्जंततूरनियरेण । तेणवि मालियपट्टे गंतूण करे कया माला ॥ ५६ ॥ नरवइसेणाहिवमंडलीय सामंतमंतिपरिकलिओ । सो इन्हि पुरमज्झे कयकरमालो परिभमइ ||२७|| इ कहिऊ fare तमि नरे जाव चिट्ठए विमलो । तो तक्खणेण पत्तो पट्टकरी तस्स दिट्टिपहं ॥ ५८ ॥ विगलंतविमलमयजलपरिमलवसमिलियमहलभमरडलं । तं पिच्छिऊण इतं विमलो पडिबोहर कुमरं ॥ ५९ ॥ जाता खणेण पत्तो हत्थी कुमरस्स संनिहाणम्मि । करक लियकुसुममालं खिविय कुमारस्स कंटम्मि ॥ ६० ॥ नियखंधे आरोवइ वीरकुमारं करे करेऊण । रायावि हु परितुट्ठो तं दद्धं मयणसमरूवं ॥ ६१ ॥ कुमारी विसो दिट्ठो अनन्नलायन्नलहरिपरिकलिओ । अमयजलहिव्व सहसा तरंगिओ पुनिमनिसाए || अह राया करिदसगं सुवन्नलक्खं तुरंगमसहस्सं । कुमरस्स धूलिझाडावणीए दाऊण विहिपुव्वं ॥ ६३॥ छायालगं चिय कुरुमईए कुमरीए सह कुमारेण । कारइ पाणिग्गहणं संतोसियसयलजणहिययं ॥६४॥ गामसहस्से पाणिस्स मोयणे देइ अप्पणो वरं । पासायं नरनाहो, विलसइ तत्थडिओ कुमरो ||६५ || जओ कुमरस्स सयं पेसियपच्छन्नपुरिसवयणाओ । सोउं वृत्तंतमिमं अइनिव्यमाणसो जाओ || ६६ ॥ पाणिग्गहदिवसे य नरनाहेणं नियम्मि भवणम्मि । परिभुंजतो मंसाइवज्जियं पुच्छिओ कुमरो || ६७|| जह कि एयं तत्तो कुमरेणं जाव कहिउमादत्तं । तो राया भणइ अणाउलेण सोयव्वमह कुमरो ॥ ६८ ॥
ततस्तात्पत्राऽऽराधितया कुलदेवतयेति कथितम् । यस्याद्य पट्टहस्ती कण्ठे क्षेप्स्यति कुसुममालाम् ॥५४॥ स कुमार्या भर्ताऽनुरक्ता तस्मिन्निश्चितं भविष्यति । ततः पूजयित्वा पट्टकरिणं कुमारीमारोप्योपरि ||१५|| मुक्तो निरङ्कुशः स पुरतो वाद्यमानतूर्यनिकरेण । तेनापि मालिकपट्टे गत्वा करे कृता माला ||१६| नरपतिसेनाधिपमण्डलिकसामन्तमन्त्रिपरिकलितः । स इदानीं पुरमध्ये कृतकरमालः परिभ्रमति ||५७|| इति कथयित्वा विरते तस्मिन् नरे यावत्तिष्ठति विमलः । ततस्तत्क्षणेन प्राप्तः पट्टकरी तस्य दृष्टिपथम् ॥ ५८ ॥ विगलद्विमलमदजलपरिमलवशमिलितमुखरभ्रमरकुलम् । तं दृष्ट्वाऽऽयन्तं विमल: प्रतिबोधयति कुमारम् ॥ ५९ ॥ यावत्तावत्क्षणेन प्राप्तो हस्ती कुमारस्य संनिधाने । करकलितकुसुममालां क्षिप्त्वा कुमारस्य कण्ठे ॥ ६० ॥ निजस्कन्ध आरोपयति वीरकुमारं करे कृत्वा । राजापि खलु परितुष्टस्तं दृष्ट्रा मदनसमरूपम् ||३१|| कुमार्यापि स दृष्टोऽनन्यलावण्यलहरिपरिकलितः । अमृतजलधिवत्सहसा तरङ्गितः पूर्णिमानिशया ॥ ६२ ॥ अथ राजा करिदशकं सुवर्णलक्षं तुरङ्गमसहस्रम् | कुमारस्य धूलिच्छोटनावन्यां दत्त्वा विधिपूर्वम् ॥ ६३ ॥ छायालग्नेनैव कुरुमत्याः कुमार्याः सह कुमारेण । कारयति पाणिग्रहणं संतोषितसकलजनहृदयम् ॥ ६४ ॥ ग्रामसहस्रं पाणेर्मोचने ददात्यात्मनः प्रवरम् । प्रासादं नरनाथो, विलसति तत्र स्थितः कुमारः ॥ ६५ ॥ जनकः कुमारस्य स्वयं प्रेषितप्रच्छन्नपुरुषवचनात् । श्रुत्वा वृत्तान्तमिममतिनिवृतमानसो जातः || ६६ || पाणिग्रहदिवसेषु च नरनाथेन निजे भवने । परिभुञ्जानो मांसादिवर्जितं पृष्टः कुमारः ॥ ६७ ॥ यथा किमेतत्, ततः कुमारेण यावत्कथयितुमारब्धम् । ततो राजा भणत्यनाकुलेन श्रोतव्यमथ कुमारः ॥ ६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org