________________
अभिधान राजेन्द्र कोश की आचारपरक दार्शनिक शब्दावली का अनुशीलन
चतुर्थ परिच्छेद... [295] अनादि वासना से संस्कारित जीव एक ही बार में सिद्धि के भावों को प्रभावित करनेवाले बाह्य कारणों में प्रमुख हैं परिषह । प्राप्त कर सके यह आवश्यक नहीं। प्रत्युत, जैसा कि पूर्व में परिषहजय के बिना साधु को अभीष्ट सिद्धि नहीं मिल सकती। कह आये हैं, उपशान्तमोह गुणस्थान से भी जीव कभी-कभी अतः प्रत्येक साधु का कर्तव्य है कि वह परिषहजय में सदा तो इतना पतित होता है कि प्रथम गुणस्थान में पहुँच जाता है। प्रयत्नशील रहे। आगे के शीर्षक में परिषहजय पर किंचित प्रकाश यह उतार-चढाव भावों की अस्थिरता के कारण होता है। आत्मा डाला जा रहा हैं।
(लक्षणानि)
मुखमूर्धं शरीरस्य, सर्वं वा मुखमुच्यते । ततोऽपि नासिका श्रेष्ठा, नासिकायाश्च लोचने ॥
यथा नेत्रे तथा शीलं, यथा नासा तथार्जवम् । यथा रुपं तथा वित्तं, यथा शीलं तथा गुणाः ।।2।।
अतिहस्वेऽतिदीर्धेडति-स्थले चातिकशे तथा । अतिकृष्णेऽतिगौरे च, षट्सु सत्त्वं निगद्यते ॥७॥ सद्धर्मः सुभगो निस्क्, सुस्वप्नः सुनयः कविः ।
सूचयत्यात्मनः श्रीमान्, नरः स्वर्गगमागमौ ॥4॥ निर्दम्भः सदयो दानी, दान्तो दक्षः सदा ऋजुः । मर्त्ययोनेः समुद्भतो, भविता च पुनस्तथा ॥5॥
मायालोभक्षुधाऽऽलस्य - बह्वहारादिचेष्टितैः । तिर्यग्योनेः समुत्पत्ति, ख्यापयत्यात्मनः पुमान् ॥6॥
सरागः स्वजनद्वेषी, दुर्भगो मूर्खसङ्गकृत । शास्ति स्वस्य गतायातं, नरो नरकवर्त्मनि ॥7॥
आवतॊ दक्षिणे भागे, दक्षिणः शुभकृन्त्रणाम् । वामो वामेति निन्द्यः स्या-द्दिगन्यत्वे तु मध्यमः ॥8॥
अरेखं बहरेखं वा, येषां पाणितलं नृणाम् । ते स्युरल्पायुषो निःस्वा, दुःखिता नात्र संशयः ॥७॥
अनामिकान्त्यरेखायाः, कनिष्ठा स्याद्यदाधिका। धनवृद्धिस्तदा पुंसां, मातृपक्षो बहुस्तथा ।10।
मणिबन्धात्पितुर्लेखा,करभाद्विभवायुषोः । लेखे द्वे यान्ति तिस्रोऽपि, तर्जन्युङ्गष्ठकान्तरम् ।। येषां रेखा इमास्तिस्रः, संपूर्णा दोषवर्जिताः । तेषां गोत्रधनायूंषि, संपूर्णान्यन्यथा न तु ॥12॥ उलङध्यन्ते च यावन्त्यो-ङ्गल्यो जीवितरेखया पञ्चविंशतयो ज्ञेया-स्तावन्त्यः शरदा बुधैः ॥3॥
यवैरङ्गष्ठमध्यस्थै-विद्याख्यातिविभूतयः। शुक्लपक्षे तथा जन्म, दक्षिणाङ्गष्ठगैश्व तैः ॥4॥ न स्त्री त्यजति रक्ताक्षं, नार्थं कनकपिङ्गलम् । दीर्थबाहुं न चैश्वर्य, न मांसोपचितं सुखम् ॥15॥
चक्षुः स्नेहेन सौभाग्यं, दन्तस्नेहेन भोजनम् । वपुः स्नेहेन सौख्यं स्यात्, पादस्नेहेन वाहनम् ॥16॥ उरोविशालो धन धान्य भोगी, शिरोविशालो नूपपुङ्गवश्च । कटी विशालो बहुपुत्रदारो, विशालपादः सततं सुखी स्यात् ॥7॥
- अ.रा.. 6/565
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org