________________
वि० सं० ११५-१५७ वर्ष ]
[ भगवान पार्श्वनाथ की परम्परा का इतिहास
तम इव भासो वृद्धौ ज्ञानादीनां न तारतम्येन । क्षुध हीयतेऽत्र न च तद् ज्ञानादीनां विरोधगतिः अविकलकारणभावे तदन्यभावे भवेदभावेन । इदमस्य विरोधीति ज्ञाने न तदस्ति केवलिनि ॥४॥ क्षुद् दुःखमनन्तसुखं विरोधे तस्येति चेत् कुतस्त्यंतत् । ज्ञानादिवन्न तज्जं विरोधि न परं ततो दृष्टम् आहारविषयकाङ्क्षारूपा क्षुद् भवति भगवति विमोहे ! कथास्न्यरूपताऽस्या न लक्ष्यते येन जायेत॥६॥ न क्षुद् बिमोहपाको यत् प्रतिसंख्यानभावननिवा । न भवति विमोहपाकः सर्वोऽपि हि तेन विनिवर्त्यः शीतोष्णवाततुल्या क्षुत् तत् तत्पतिविधान काङ्क्षा तु । मूढस्य भवति मोहात् तथा भृशं बाध्यमानस्य तैजससमूहकृतस्य द्रव्यस्याऽभ्यवहृतस्य पर्याप्त्या । अनुत्तरपरिणामे क्षुत् क्रमेण भगवति च तत् सर्वम् ज्ञानावरणीयादेर्शानावरणादि कर्मणः कार्यम् । क्षुत् तद्विलक्षणऽस्यां न तस्य सहकारिभावोऽपि॥१०॥ क्षुद्बाधिते 'न जाने, न चेक्ष' इत्यस्ति न तु विपर्यासः । तद्यं सहकारि तु; तस्य न तद् वेद्यसहकारि ज्ञानावरणादीनामशेषविगमे क्षुधि प्रजातायाम् । अपि तद् ज्ञानादीनां हानिः स्यादितरवत् तत्र ॥१२॥ नष्टविपाका क्षुदिति प्रतिपत्तौ भवति चागमविरोधः। शीतोष्ण-क्षुद्-उदन्याऽऽदयो हि ननु वेदनोय इति उदये फलं न तस्मिन् उदीरणेत्यफलता न वेद्यस्य । नोदीरणा फलात्मा तथा भवेदायुरप्यफलम्॥१४॥ अनुदीर्णवेद्य इति चेद् न क्षुद् वीर्य किमत्र नहि वीर्यम् । क्षुदभावे क्षुदभावेन स्थित्यै क्षधि तनोविलयः अपवर्तते कृतार्थ नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्य किं गततृषो भुक्तिः ॥१६॥ ज्ञानाद्यलयेऽपि जिने मोहेऽपि स्याद् क्षुद् उद्भवेद् भुक्तिः। वचन-गमनादिवच्च प्रयोजनं स्व-परसिद्धिःस्यात् ध्यानस्य समुच्छिन्नक्रियस्य चरमक्षण गते सिद्धिः। सा नेदानीमस्ति स्वस्य परेषां च कर्तव्या॥१८॥ रत्नत्रयेण मुक्तिन विना तेनाऽस्ति चरमदेहस्य । भुक्त्या तथा तनोः स्थितिरायुपि न त्वनपवाऽपि आयुरिवाऽभ्यवहारो जीवनहेतुर्विनाऽभ्यवहृतेः । चेत् तिष्ठत्वनन्तवीर्ये विनाऽयुषा कालमपि तिष्ठेन न ज्ञानवदुपयोगो वीर्ये कर्मक्षयेण लब्धिस्तु । तत्राऽऽयुरिवाऽऽहारोऽपेक्ष्येत न तत्र बाधाऽस्ति॥२१॥ मासं वर्ष वाऽपि च तानि शरीराणि तेन भुक्तेन । तिष्ठन्ति न चाऽऽकालं नान्यथा पूर्वमपि भुक्तिः असति क्षुब्दाधेऽङ्गे लये न शक्तिक्षयो न संक्लेशः । आयुश्चानपवत्यै बाध-लयौ प्राग्वदधुनाऽपि देशोनपूर्वकोटीविहरणमेवं सतीह केवलिनः । सूत्रोक्तमुपापादि न, मुक्तिश्च न नियतकाला स्यात्॥२४॥ अपवतेहेत्वभावेऽनपर्वतनिमितसंपदायुष्कः । स्याद् अनपवर्त इति तत् केवलिभुक्तिं समर्थयते ॥२५ः। कायस्तथाविधोऽसौ जिनस्य यदभोजनस्थितिरितदिम् । वाङ्मात्र नाबार्थे प्रमाणमाप्तागमोऽन्यद्वा अस्वेदादि प्रागपि सर्वाभिमुखादि तीर्थकरपुण्यात् । स्थितनखतादि सुरेभ्यो न क्षु देहान्यता वाऽस्ति भुक्तिर्दोषो यदुपोष्यते, न दोषश्च भवति निर्दोषै, इति निगदतो निषद्याऽर्हति न स्थान-योगादेः॥२८॥ रोगादिवत् क्षुधो न व्यभिचारो वेदनीयजन्मायाः। प्राणिनि “एकादशजिन" इतिजिन सामान्यविषयंच तद्हेतुकर्मभावात् परीषहोक्तिर्न जिन उपस्कार्यः नश्वाऽभावासिद्धरित्यादेनं क्षुदादिगति ॥ ३०॥ तैलक्षये न दीपो न जलागममन्तरेण जलधारा । तिष्ठति तथा तनोः स्थितिरपि न विनाऽऽहारयोगेन
[ भगवान् महावीर की परम्परा
Jain Education Thternational
For Private & Personal Use Only
www.jainelibrary.org