________________
आचार्य रत्नप्रभसूर का जीवन ]
[ ओसवाल संवत् १८३
इस प्रकार से साधुओं को आहार पानी वस्त्र पात्रादि प्रचूरता से मिलता देख एक समय आ महागिरि ने आर्य सुहस्ति से कहा कि आर्य क्या कारण है कि इस प्रकार आहार उपधि प्रचरता से मिल रही है इसमें क्रिय विक्रयादि दोष का संभव तो नहीं है न ? आर्य सुहस्ति ने कहा पूज्यवर ! इसमें दोष की क्या संभावना हो सकती है कारण यथा राजास्तथाप्रजा ? जब राजा भक्तिवान है तो प्रजा भी उसका
1
अयं निजःपरोवायमित्यपेक्षाविवर्जितम् । तत्रानिवारितं प्रापुर्भोजनं भोजनेच्छवः ॥ १०४ ॥ • यदवाशिष्यतान्नादि भुक्तवत्सुबुभुक्षुषु । तद्विभज्योपाददिरे महान सनियोगिनः || १०५ ॥ hat गृहात्यवशिष्टानमिति पृष्टा महीभुजा । आख्यन्महानसायुक्ताः स्वामिन्नादद्महे वयम् ॥ १०६ ॥ आदिदेशचतान्राजा यदन्नमवशिष्यते । अकृताकारितार्थिभ्यः साधुभ्योदेयमेवतत् ॥ १०७॥ द्रव्यं दास्यामिवस्तेन सनिर्वाहाभविष्यथ । नहिकेष्वपिकार्येषु सीदतिद्रव्यवाञ्जनः ॥ १०८॥ तेऽवशिष्टान्नपानादि तदाद्यपितदाज्ञया । साधुभ्योददिरेतेऽपि स्त्रीचक्रुः शुद्धिदर्शनात् ॥ १०९॥ श्रमणोपासकोराजा कान्दविकानथादिशत् । तैलाज्यदधिविक्रे तृन्वस्त्रविक्रयकानपि ॥ ११० ॥ यत्किंचिदुपकुरुते साधूनांदेयमेवतत् । तन्मूल्यं वः प्रदास्यामि मास्मशङ्कध्वमन्यथा ॥ १११ ॥ ते तथारेभिरेकर्तुं जातहर्षाविशेषतः । विक्रीयमाणेपण्येहि वाणिजामुत्सवो महान् ॥ ११२ ॥ तत्तथार्यमुहस्तीतु दोषयुक्तंविदन्नपि । सेहे शिष्यानुरागेण लिप्त चित्तोबलीयसा ।। ११३ ॥ सुहस्तिनमितश्चर्य महागिरिरभाषत । अनेषणीयंराजान्नं किमादत्से विन्नपि ॥ ११४॥ सुहस्त्युवाच भगवन्यथा राजा तथा प्रजाः । राजानुवर्तनपराः पौरा विश्राणयन्त्यदः ॥ ११५ ॥ मायेयमिति कुपितो जगादार्यमहागिरीः । शान्तं पापं विसम्भोगः खल्वतः परमावेयो ॥ ११६॥ सामाचारीसमानैर्हि साधुभिः साधु सङ्गतम् । सामाचारी विभिन्नस्य भिन्नोऽध्वातः परं तव ॥ ११७ ॥ वेपमानो भियावाल इव भक्तः सुहस्त्यपि । आर्य महागिरिपादान्वन्दि त्वोचे कृताञ्जलिः ॥ ११८ ॥ सापराधोऽस्मि भगवन्मिथ्यादुः कृतमस्तुमे । क्षम्यतामपराधोऽयं करिष्येनेदृश पुनः ॥ ११९ ॥ ऊचे महागिरिरथ दोषः को नामतेऽथवा । पुराभगवता वीरस्वामिनैतद्विभाषितम् ॥ १२०॥ मदीये शिष्यसन्ताने स्थूलभद्रमुनेः परम् । पतत्प्रकर्षासाधूनां सामाचारी भविष्यति ॥ १२१ ॥ स्थूलभद्रमुनेः पश्चादावां तीर्थ प्रवर्तकौं । अभूवतदिदंस्वामिवचः सत्यापित्वया ॥ १२२ ॥ स्थापयित्वेत्य सम्भोगि कल्पमार्य महागिरिः । जीवन्तस्वामि प्रतिमां नत्वावन्त्या विनिर्ययौ ।। १२३ ।। पूर्वंहिसमवसृतौ श्रीमतश्चरमर्हितः । दशार्णभद्र सम्बोधसमये यानि जज्ञिरे || १२४॥ गजेन्द्रस्याग्रपदानि समायाते दिवस्पतौ । तथैवास्थुश्च तत्रागात्तीर्थे चार्य महागिरिः । १२५।। ख्याते तत्रमहातीर्थे गजेन्द्र पद नामनि । त्यक्त देहोऽनशनेन ययौ स्वर्गं महागिरिः || १२६ || पार्थिवः सम्पतिरपि पालयञ्श्रावकवतम् । पृर्णायुर्देव्य भूत्सिद्धिक्रमेण च गमिष्यति ।। १२७॥
" परिशिष्ट पर्दस्वर्ग ११ वॉ"
કાઢ
Jain Education International
For Private & Personal Use Only
३४५
www.jainelibrary.org