________________
तत्वनिर्णयप्रासाद
॥ मालिनी॥ ध्वजपटकृतकीर्तिस्फूर्तिदीप्यद्विमान ।
प्रसृमरबहुवेगत्यक्तसर्वोपमान ॥ इह जिनपतिपूजासंनिधौ मातरिश्व
नपनयसमुदायं मध्यवाह्यातपानाम् ॥ १ ॥ “॥ॐ वायो ईह० शेषं पूर्ववत् ॥” इति वायुपूजनम् ॥ ६ ॥
॥ वसंततिलका ॥ कैलासवास विलसत्कमलाविलास ।
संशुद्धहासकृतदौस्थ्यकथानिरास ॥ श्रीमत्कुबेरभगवत्स्नपनेत्र सर्व ।
विघ्नं विनाशय शुभाशय शीघ्रमेव ॥ १॥ “॥ ॐ कुबेर इह० शेषं पूर्ववत् ॥” इति कुबेरपूजनम् ॥ ७ ॥
॥ वसंततिलका ॥ गंगातरगपारखलनकीर्णवारि प्रोद्यत्कपर्दपरिमंडितपार्श्वदेशम् ।। नित्यं जिनस्नपनहृष्टहृदः स्मरारे विघ्नं निहंतुसकलस्य जगत्रयस्य १ " ॥ ॐ ईशान इह० शेषं पूर्ववत् ॥” इतीशानपूजनम् ॥ ८ ॥
॥ वृत्तपाठः ॥ फणमणिमहसा विभासमानाः। कृतयमुनाजलसंश्रयोपमानाः॥ फणिन इह जिनाभिषेककाले। बलिभवनादमृतंसमानयंतु ॥१॥ " ॥ ॐ नागा इह० शेषं पूर्ववत् ॥” इति नागपूजनम्॥१॥
॥ द्रुतविलंबितपाठः ॥ विशदपुस्तकशस्तकरद्वयः । प्रथितवेदतया प्रमदप्रदः॥ भगवतः स्नपनावसरे चिरं । हरतु विघ्नभरं द्रुहिणो विभुः ॥१॥
*ब्रह्मन् इह शेषं पूर्ववत् ॥” इति ब्रह्मणः पूजनम् ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org