SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ३७० तत्त्वनिर्णयप्रासाद शुभशास्त्राकर्णनं च तथा नाग्भक्ष्यभक्षणम् ॥ अत्याज्यानां न च त्यागोप्य घात्यानामघातनम् ॥ ७ ॥ अतिथौ च तथा पात्रे दीने दानं यथाविधि ॥ दरिद्राणां तथधानामापद्भारभृतामपि ॥ ८ ॥ हीनाङ्गानां विकलानां नोपहासः कदाचन ॥ समुत्यन्नक्षुत्पिपासाघृणाक्रोधादिगोपनम् ॥ ९ ॥ अरिषड्वर्गविजयः पक्षपातो गुणेषु च ॥ देशाचाराऽऽचरणं च भयं पापापवादयोः ॥ १० ॥ उद्वाहः सदृशाचारैः समजात्यन्यगोत्रजैः ॥ त्रिवर्गसाधनं नित्यमन्योन्याप्रतिबंधतः ॥ ११॥ परिज्ञानं स्वपरयोद्देशकालादिचिंतनम् ॥ सौजन्यं दीर्घदर्शित्वं कृतज्ञत्वं सलज्जता ॥ १२ ॥ परोपकारकरणं परपीडनवर्जनम् ॥ पराक्रमः परिभवे सर्वत्र क्षांतिरन्यदा ॥ १३ ॥ जलाशयश्मशानानां तथा दैवतसद्मनाम् ॥ निद्राहाररतादीनां संध्यासु परिवर्जनम् ॥ १४ ॥ प्रवेशोल्लंघनं चैव तटे शयनमेव च ॥ कूपस्य वर्जनं नद्यालंघनं तरणीं विना ॥ १५ ॥ गुर्वासनादिशय्यासु तालवृक्षे कुभूमिषु ॥ दुर्गेष्टिषु कुकार्येषु सदैवासनवर्जनम् ॥ १६ ॥ न लंघनं च गर्त्तादेर्नदुष्टस्वामिसेवनम् ॥ न चतुर्थी दुनग्नस्त्रीशक्रचापविलोकनम् ॥ १७ ॥ हस्त्यश्वनखिनां चापवादिनां दूरवर्जनम् ॥ दिवासंभोगकरणं वृक्षस्योपासनं निशि ॥ १८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy