SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशस्तम्भः । तेष्वप्ययं परतरः प्रथितः पुराऽपि । लब्ध्वैनमेव हि गताः शिवमत्र लोकाः ॥ ४ ॥ जग्मुर्जिनास्तदपवर्गपदं यदैव । विश्वं वराकमिदमत्र कथं विनास्मान् ॥ एतद्विलोक्य भुवनोद्धरणाय धीरैः । मंत्रात्मकं निजवपुर्निहितं तदाऽत्र ॥ ५ ॥ इंदुर्दिवाकरतया रविरिंदुरूपः । पातालमंबरमिलासुरलोक एव ॥ किंजल्पितेन बहुना भुवनत्रयेऽपि । तन्नास्ति यन्न विषमं च समं च तस्मात् ॥ ६ ॥ सिद्धांतोदधिनिम्र्म्मथान्नवनीतमिवोद्धृतम् ॥ परमेष्ठिमहामंत्रं धारयेत् हृदि सर्वदा ॥ ७ ॥ सर्वपातकहर्त्तारं सर्ववांछित दायकम् ॥ मोक्षारोहणसापाने मंत्रे प्राप्नोति पुण्यवान् ॥ ८ ॥ धार्योयं भवता यत्नात् न देयो यस्य कस्यचित् ॥ अज्ञानेषु श्रावितोयं शपत्येव न संशयः ॥ ९ ॥ * न स्मर्त्तव्योऽपवित्रेण न जने नाऽन्यसंश्रये ॥ नाविनीतेन नो दीर्घशब्देनाऽपि कदाचन ॥ १० ॥ न बालानां नाऽशुचीनां नाऽधर्माणां न दुर्दशाम् ॥ + न प्लुतानां न दुष्टानां दुर्जातीनां न कुत्रचित् ॥ ११ ॥ अनेन मंत्रराजेन भूयास्त्वं विश्वपूजितः ॥ प्राणांतेऽपि परित्यागमस्य कुर्यान्न कुत्रचित् ॥ १२ ॥ * न स्मर्त्तव्योपचित्तेन न शठेनान्यसंश्रये इति पुस्तकांतरे ॥ तथा अन्येषु श्राद्धदिनकृतश्राद्धविधिकौमुदीपचाशकादिषु शास्त्रेष्वेवमुक्तं यथा सा काप्यवस्था नास्ति यस्यां नमस्कारो न स्मर्त्तव्य इति ॥ + माडपूतानां न दुष्टानां दुर्जनानां न कुत्रचित् । इति पुस्तकांतरे ॥ Jain Education International ३६१ For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy