SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ १९८ तत्त्वनिर्णयप्रासाद. तस्मात् । विराट्।अजायत । विऽराजः। अधि। पुरुषः। सः। जातः।अति । अरिच्यत । पश्चात् । भूमिम् । अथो इति । पुरः ॥ ५॥ १७॥ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥६॥ यत् । पुरुषेण । हविषा । देवाः । यज्ञम् । अतन्वत । वसन्तः । अस्य । आसीत् । आज्यम् । ग्रीष्मः । इध्मः । शरत् । हविः ॥ ६॥ तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्चये ॥७॥ तम् । यज्ञम् । बर्हिषि । प्र। औक्षन् । पुरुषम् । जातम् । अग्रतः । तेन देवाः । अयजन्त । साध्याः । ऋषयः । च । ये ॥ ७ ॥ तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् । पशून्ताँश्चक्रे वायव्यांनारण्यान्याम्याश्च ये ॥८॥ तस्मात् । यज्ञात् । सर्वऽहुतः । समऽभृतम् । पृषत्ऽआज्यम्। पशून्। तान् । चक्रे। वायव्यान् । आरण्यान्। ग्राम्याः। च।ये॥८॥ तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे। छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥९॥ तस्मात्। यज्ञात् । सर्वहुतः। ऋचः।सामानि । जज्ञिरे।छन्दांसि । जज्ञिरे। तस्मात्। यजुः। तस्मात् । अजायत ॥९॥ तस्मादश्वा अजायन्त ये के चोभयादतः। गावो ह जज्ञिरे तस्मात्तस्माज्जाता अंजावयः॥१०॥१८॥ तस्मात् । अश्वा: अजायन्त । ये। के। च।उभयादतः। गाव: ह । जज्ञिरे। तस्मात् । तस्मात् । जाताः । अजावयः ॥ १०॥ १८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy