SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ षष्ठस्तम्भः । यं तु कर्मणि यस्मिन् स न्ययुङ प्रथम प्रभुः ॥ स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ २८ ॥ हिंस्राहिंसे मृदुरे धर्माधर्मावृतानृते ॥ यद्यस्य सोऽद्धात् सर्गे तत्तस्य स्वयमाविशेत् ॥ २९ ॥ यथर्त्तुलिङ्गान्यृतवः स्वयमेवर्त्तुपर्यये ॥ स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ॥ ३० ॥ लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः ॥ ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्त्तयत् ॥ ३१ ॥ द्विधा कृत्वात्मनो देहमर्द्धेन पुरुषो ऽभवत् ॥ अर्जेन नारी तस्यां स विराजमसृजत् प्रभुः ॥ ३२॥ तपस्तप्त्वाऽसृजद्यं तु स स्वयं पुरुषो विराट् ॥ तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ ३३ ॥ अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्वरम् ॥ पतीन् प्रजानामसृजं महर्षीनादितो दश ॥ ३४ ॥ मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ ३५ ॥ एते मनूंस्तु सप्तान्यानसृजन भूरितेजसः ॥ देवान् देवनिकायांश्च महर्षीचामितौजसः ॥ ३६ ॥ यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् ॥ नागान् सर्पान् सुपर्णाश्च पितॄणां च पृथग्गणान्॥३७॥ विद्युतोशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च ॥ ३८ ॥ किन्नरान् वानरान् मत्स्यान् विविधांच विहंगमान् ॥ पशून् मृगान् मनुष्यांश्च व्यालांश्वोभयतोदतः ॥३९॥ Jain Education International १८१ For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy