________________
१७२
तत्त्वनिर्णयप्रासाद. अपकारः प्रेताद्यैः कस्तस्य कृतः सुरादिभिः किं वा ॥ संयोजितायदेते सुखदुःखाभ्यामहेतुभ्याम् ॥ १६॥ तुल्ये सति सामर्थ्य किं न कृतो वित्तसंयुतो लोकः ॥ येन कृतो बहुदुःखो जन्मजरामृत्युपथि लोकः ॥ १७॥ यदि तेन कृतो लोको भूयोपि किमस्य संक्षयः क्रियते ॥ उत्पादितः किमर्थ यदि संक्षपणीय एवासौ ॥ १८॥ कः संक्षिप्तेन गुणः को वा सृष्टेन तस्य लोकेन ॥ को वा जन्मादिकृतं दुःखं संप्रापितैः सत्वैः ॥ १९॥ भूतानुगतशरीरं कुम्भायं कुम्भकृत् यथा कृत्वा ॥ असकृद्भिनत्ति तद्वत् कर्ता भूतानि निस्तूंशः ॥२०॥ भवसंभवदुःखकरं निःकारणवैरिणं सदा जगतः ॥ कस्तं व्रजेच्छरण्यं भूरि श्रेयोर्थमतिपापम् ॥ २१ ॥ स्वकृतं जगत् क्षपयतस्तस्य न बन्धोस्ति बुद्धिरन्येषाम् ॥ किं न भवति पुत्रवधे बन्धः पितुरुग्रचित्तस्य ॥ २२ ॥ जगतः प्रागुत्पत्तिर्यदि कर्तुर्विग्रहात् कथं तहत् ॥ अधुना न भवति तस्यैव विग्रहात्संभवस्तस्याः ॥ २३ ॥ विविधासु यथायोनिषु सत्वानां सांप्रतं समुत्पत्तिः नित्यं तथैव सिद्धा प्राहुलॊकस्थितिविधिज्ञाः ॥ २४ ॥ एवं विचार्यमाणाः सृष्टिविशेषाः परस्परविरुद्धाः ॥
हरिहरविचारतुल्या युक्तिविहीनाः परित्याज्याः ॥ २५॥ व्याख्या-अब हम अपने सिद्धांतकों अंगीकारकरके कहते हैं; जगत्की उत्पत्ति, ईश्वरने नही करी है; क्योंकि, सर्व पुरुषार्थकरके जो ईश्वर कृतकृत्य है, सो ईश्वर आप्त, मलीन जगत्को नहीं करता है. जेकर करे तो, कृतकृत्य नही, आप्त नही, वीतराग नही, तब तो, वो ईश्वरही नही.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org