________________
तत्वनिर्णयप्रासाद
कथंभूतस्त्वं । बुद्धः ज्ञाततत्त्वः । कस्मात् विबुधार्चितबुद्धिबोधात् । विबुधैः गणधरैर्देवैर्वा अर्चितः पूजितो बुद्धेः केवलज्ञानस्य बोधो वस्तुस्तोमपरिच्छेदो यस्य स विबुधार्चितबुद्धिबोधस्तस्मात् विबुधार्चितबुद्धिबोधात इति बहुव्रीहिः । पक्षे बुद्धः । सप्तानामन्यतमः सुगतः केवलज्ञानाभावेन ज्ञाततत्त्वो नास्तीति भावः । हे नाथ ! खेमेव शंकरोऽसि । असीति क्रियापदं । कः कर्त्ता । त्वं । कथंभृतस्त्वं । शंकरः । कस्मात् | भुवनत्रयशंकरत्वात् । भुवनत्रयस्य जगत्रीतयस्य शंकरत्वात् सुखकारित्वात् । भुवनानां त्रयं भुवनत्रयं इति तत्पुरुषः । भुवनत्रयस्य शं सुखं करोतीति भुवनत्रयशंकरस्तस्य भावस्तत्त्वं तस्मात् भुवनत्रयशंकरत्वात् । इति तत्पुरुषः । पक्षे शंकरो महादेवः स तु कपाली नमो भैरवः संहारकः तेन यथार्थनामा शंकरो ना - स्तीति भावः । हे धीर ! धियं बुद्धि राति ददातीति धीरस्तस्य संबोधनं हे धीर ! धाता त्वं असि । कस्मात् । निष्पादनात् । कस्य शिवमार्गविधेः । शिवस्य मोक्षस्य मार्गः पंथा । तस्य विधिः रत्नत्रयरूपयोगस्तस्येति तत्पुरुषः । एतावता मोक्षमार्गविधेर्विधानात् त्वमेव धातासीत्यर्थः संपन्नः । पक्षे धाता ब्रह्मा स तु जडो वेदोपदेशान्नरकपथमुदजीघटत्तेन शिवमार्गविधेर्विधायको नास्तीति भावः । हे भगवन् ! त्वमेव व्यक्तं स्पष्टं पुरुषोत्तमः असि । पुरुषेषु उत्तमः पुरुषोत्तम इति तत्पुरुषः । पक्षे पुरुषोत्तम कृष्णः । स तु सर्वत्र कपटप्रकटनात् यथार्थी पुरुषोत्तमतां न धत्ते इति भावः ॥ २५ ॥
भावार्थ:- यह है कि, हे नाथ! विबुधों, वा गणधरों, वा देवोंकरके पूजित केवलज्ञानके बोध वस्तु स्तोमके प्रगट करनेवाला होनेसें, तूंही बुद्ध है. पक्षमें सातों बुद्धोंमेंसे अन्यतम सुगत केवलज्ञानके अभाव - करके ज्ञाततत्त्व नही है. हे नाथ ! तीन भुवनकों, शं (सुख) करने से तूं शंकर है. पक्षमें शंकर, महादेव, सो तो, कपाली, नग्न, भैरव संहारक होनेकरके यथार्थनामा शंकर नहीं है, हे धीर ! ज्ञानदर्शनचारित्ररूप मोक्षमार्गके विधिकों करनेसे तूंही धाता है. पक्षमें धाता, ब्रह्मा, सो तो, जड है. वेदोपदेश (हिंसकशास्त्रोपदेश) से नरकपथकों प्रगट करता भया, तिसकरके शिवमार्ग के विधिको करनेवाला नही है. हे भगवन् !
For Private & Personal Use Only
www.jainelibrary.org
८०
Jain Education International