________________
કર
तत्वनिर्णयप्रासाद
प्रोद्भूतलम्बलाङ्गूलो हंष्ट्रोत्कटमुखातटः ॥ ५ ॥ व्यावृत्तास्यो ललज्जिह्वः क्षामकुक्षिः शिरादिषु ॥ तस्याशुवर्तितुं देवी व्यवस्यत सती तदा ॥ ६ ॥ ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः ॥ आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा ॥ ७ ॥ ॥ ब्रह्मोवाच ॥
किं पुत्रि ! प्राप्तुकामासि किमलभ्यं ददामि ते ॥ ८ ॥ विरम्यतामतिक्शात् तपसोस्मान्मदाज्ञया ॥ तछ्रुत्वोवाच गिरिजा गुरुं गौरवगर्भितम् ॥ ९ ॥ वाक्यं वाचाचिरोद्गीर्णवर्णनिर्णीतवाञ्छितम् ॥ ॥ देव्युवाच ॥
तपसा दुष्करेणाप्तः पतित्वे शंकरो मया ॥ १० ॥ स मां श्यामलवर्णेति बहुशः प्रोक्तवान् भवः ॥ स्यामहं काञ्चनाकारा वाल्लभ्येन च संयुता ॥ ११ ॥ भर्तुर्भूतपतेरङ्गमेकतो निर्विशेङ्कवत् ॥ तस्यास्तद्भाषितं श्रुत्वा प्रोवाच कमलासनः ॥ १२ ॥ एवं भव त्वं भूयश्च भर्तृदेहार्धधारिणी ॥ ततस्तस्याजभृङ्खाङ्कं फुल्लनीलोत्पलत्वचम् ॥ १३॥ त्वचा सा चाभद्दीप्ता घंटाहस्ता विलोचना ॥ नानाभरण पूर्णाङ्गीपीत कौशेयधारिणी ॥ १४ ॥ तामब्रवीत्ततो ब्रह्मा देवीं नीलाम्बुजत्विषम् ॥ निशे भूधरजादेहसंपर्कात्त्वं ममाज्ञया ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org