SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ तत्वनिर्णयप्रासाद तस्या व्रजन्त्याः कोपेन पुनराह पुरान्तकः ॥ सत्यं सर्वैरवयवैः सुतासि सदृशी पितुः ॥ १७ ॥ हिमाचलस्य शृङ्गैस्तैर्मेघजालाकुलैर्नभः ॥ तथा दुरवगाह्येभ्यो हृदयेभ्यस्तवाशयः ॥ १८ ॥ काठिन्यांकस्त्वमस्मभ्यं वनेभ्यो बहुधा गता ॥ कुटिलत्वं च वर्त्मभ्यो दुःसेव्यत्वं हिमादपि ॥ १९ ॥ संक्रान्ति सर्वदैवेति तन्वङ्गि ! हिमशैलराट् ॥ इत्युक्ता सा पुनः प्राह गिरिशं शैलजा तदा ॥ २० ॥ कोपकम्पितमूर्द्धा च प्रस्फुरद्दशनच्छदा ॥ ॥ उमोवाच ॥ मा सर्वान् दोषदानेन निन्दान्यान् गुणिनो जनान् ॥२१॥ तवापि दृष्टसंपर्कात् संक्रान्तं सर्वमेव हि ॥ व्यालेभ्योऽधिकजिह्वात्वं भस्मना स्नेहबन्धनम् ॥ २२ ॥ हृत्कालुष्यं शशाङ्कात्तु दुर्बोधत्वं वृषादपि ॥ तथा बहु किमुक्तेन अलं वाचा श्रमेण ते ॥ २३ ॥ श्मशानवासान्निर्भीत्वं नग्नत्वान्न तव त्रपा ॥ निर्घृणत्वं कपालित्वाद्दया ते विगता चिरम् ॥ २४ ॥ इत्युक्त्वा मन्दिरात्तस्मान्निर्जगाम हिमाद्रिजा ॥ तस्यां व्रजन्त्यां देवेशगणैः किलकिलो ध्वनिः ॥ २५ ॥ व मातर्गच्छसि त्यक्त्वा रुदन्तो धाविताः पुनः ॥ विष्टभ्य चरणौ देव्या वीरको बाष्पगद्गदम् ॥ २६ ॥ प्रोवाच मातः ! किं त्वेतत् क्व यासि कुपितान्तरा ॥ अहं त्वामनुयास्यामि व्रजन्तीं स्नेहवर्जिताम् ॥ २७ ॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy