________________
द्वितीयस्तम्भः। नैवास्मि कुटिला शर्व ! विषमा नैव धूर्जटे!॥ सविषस्त्वं गतः ख्याति व्यक्तं दोषाकराश्रयात् ॥६॥ नाहं पूष्णोपि दशना नेत्रे चास्मि भगस्य हि ॥ आदित्यश्च विजानाति भगवान् द्वादशात्मकः ॥ ७॥ मूर्ध्नि शूलं जनयसि स्वैर्दोषैर्मामधिक्षिपन् ॥ यस्त्वं मामाह कृष्णेति महाकालेति विश्रुतः॥८॥ यास्याम्यहं परित्यक्ता चात्मानं तपसा गिरिम् ॥ जीवन्त्या नास्ति मे कत्यं धूर्तेन परिभूतया ॥९॥ निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं भवः ।। उवाचाधिकसंभ्रान्तः प्रणयेनेन्दुमौलिना ॥ १० ॥
॥ शर्व उवाच ॥ अगात्मजासि गिरिजे! नाहं निन्दापरस्तव ॥ त्वद्भक्तिबुद्धया कृतवांस्तवाहं नामसंश्रयम् ॥११॥ विकल्पः स्वस्थचित्तेपि गिरिजे! नैव कल्पना ॥ यद्येवं कुपिता भीरु! त्वं तवाहं न वै पुनः ।। १२॥ नर्मवादी भविष्यामि जहि कोपं शुचिस्मिते ॥ शिरसा प्रणतश्चाहं रचितस्ते मयाऽञ्जलिः ॥ १३॥ स्नेहेनाप्यवमानेन निन्दितेनैति विक्रियाम् ॥ तस्मान्न जातु रुष्टस्य नर्मस्टष्टो जनः किल ॥ १४॥ अनेकैः स्वादुभिर्देवी देवेन प्रतिबोधिता ॥ . कोपं तीव्र न तत्याज सती मर्मणि घट्टिता ॥ १५॥ अवष्टब्धमथास्फाल्य वासः शंकरपाणिना ॥ विपर्यस्तालका वेगाद्यातुमैच्छत शैलजा ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org