________________
( ७८ )
पद्मप्रभप्रभोर्देह, भासः पुष्णंतु वः श्रियम् । अंतरङ्गारिमथने, कोपाटोपादिवारुणाः ॥ ८ ॥ श्री सुपार्श्व जिनेन्द्राय, महेंद्रमहिताङ्घ्रये । नमश्वतुर्वर्ण संघ, गगनाभोगभास्वते
॥ ६ ॥
चन्द्रप्रभप्रभोचन्द्र-, मरीचिनिचयोज्ज्वला । मूर्त्तिर्मूर्त्तसितध्यान, निर्मितेव श्रियेऽस्तुवः ॥ १० ॥ करामलकवद्विश्वं, कलयन् केवलश्रिया । श्रचित्यमाहात्म्यनिधिः, -सुविधिर्बोधयेऽस्तुवः ॥ ११ ॥
सत्त्वानां परमानन्द, कन्दोद्भेदनवाम्बुदः । स्याद्वादामृत निस्दी, शीतलः पातु वो जिनः ॥ १२ ॥ भवरोगार्तजन्तूना--मगदङ्कारदर्शनः
|
निःश्रेयसश्रीरमणः, श्रेयांसः श्रेयसेऽस्तु वः ॥ १३ ॥ विश्वोपकारकीभूत, -तीर्थकृत्कर्मनिर्मितिः । सुरासुरनरैः पूज्यो, वासुपूज्यः पुनातु वः ।। १४ ।। विमलस्वामिनो वाचः, कतकक्षोदसोदराः । जयंति त्रिजगच्चेतो, - जलनैर्मल्य हेतवः ॥ १५ ॥
स्वयंभूरमणस्पधिं,--करुणारसवारिया
1
अनंतजिदनन्तां वः प्रयच्छतु सुखश्रियम् ॥ १६ ॥
,
कल्पद्रुमसधर्माण, मिष्टप्राप्तौ शरीरिणाम् । चतुर्घाधर्मदेष्टारं धर्मनाथमुपास्महे ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org