________________
गृहस्थ-जावन
७७
दुष्टों के दमन एवं प्रजा तथा राज्य के संरक्षणार्थ चार प्रकार की सेना व सेनापतियों की व्यवस्था की।५ साम, दाम, दण्ड और भेद
तेसि उग्गा दंडणीती ते उग्गा, भोगाणाम जे पितित्थाणिया सामिस्स, राइन्ना नाम जे सामिस्स समन्वया, अवसेसा खत्तिया।
-आवश्यक चूणि, जिनदास पृ० १५४ (ग) तदोग्र-भोग-राजन्य - क्षत्रभेदैश्चतुर्विधान् ।
जनानासूत्रयद् विश्वस्थितिनाटकसूत्रभृत् ।। आरक्षपुरुषा उग्रा, उग्रदण्डाधिकारिणः । भोगा मन्त्र्यादयो भतु स्त्रायस्त्रिशा हरेरिव ॥ राजन्या जज्ञिरे ते ये, समानवयसः प्रभोः । अवशेषास्तु पुरुषा, बभूवुः क्षत्रिया इति ।।
–त्रिषष्ठि १।२।६७४ से ६७६ ओंकार इव मन्त्राणां, नृपाणां प्रथमो नृपः । अपत्यानि निजानीव, पालयामास स प्रजाः ।। असाधुशासने साधुपालने कृतकर्मणः । प्रत्यङ्गानि स्वकानीव, मन्त्रिणो विदधे विभुः ।। चौर्यादिरक्षणे दक्षानारक्षानप्यसूत्रयत् । सुत्रामेव लोकपालान्, राजा वृषभलाञ्छनः ॥ अनीकस्याङ्गमुत्कृष्टमुत्तमाङ्ग तनोरिव । राज्यस्थित्यै राजहस्ती, हस्तिनः स समग्रहीत ॥ आदित्यतुरगस्पर्द्धयेवात्युद्ध रकन्धरान् बन्धुरान् धारयामास, तुरगान् वृषभध्वजः ॥ सुश्लिष्टकाष्ठघटितान्, स्यन्दनान् नाभिनन्दनः । विमानानीव भूस्थानि, सूत्रयामास च स्वयम् ।। सुपरीक्षितसत्त्वानां, पत्तीनां च परिग्रहम् । नाभिसूनुस्तदा चक्रे, चक्रवर्तिभवे यथा ।। नव्यसाम्राज्यसौधस्य, स्तम्भानिव बलीयसः । अनीकाधिपतींस्तत्र, स्थापयामास नाभिभूः ।।
--त्रिषष्ठि० ११२।६२५ से ६३२ प० ६३-६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org