________________
प्रकाशिका टीका- षष्ठोवक्षस्कार: सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम्
७५९
श्रीणि तीर्थानि प्रज्ञप्तानि तद्यथा - मागधं वरदाम प्रभासम्, एवमेव जम्बूद्वीपे खलु भदन्त ! द्वीपे महाविदेहे वर्षे एकैकस्मिन् चक्रवर्तिविजये कति तीर्थानि प्रज्ञप्तानि ? गौतम 1 त्रीणि तीर्थानि प्रज्ञप्तानि तद्यथा - मागधं वरदाम प्रभासम् ? एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे एकं द्वत्तरं तीर्थशतं भवतीत्याख्यातं ? जम्बूद्वीपे खल भदन्त ! द्वीपे कियत्यो विद्याधरश्रेणयः कियत्य अभियोगिक श्रेणयः प्रज्ञप्ताः ? गौतम ! जम्बूद्वीपे द्वीपे अष्टषष्टि विद्याधरश्रेणयोsष्टषष्टि राभियोगिकश्रेणयः प्रज्ञप्ताः । एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे पट्त्रंशत् श्रेणयो भवन्तीत्याख्यातम् । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्तचक्रवर्त्तिविजयाः कियत्यो राजधान्यः कियत्यस्तमिस्रागुहाः कियत्यः खण्डप्रपातगुहाः कियन्तः कृतमालका देवाः serat aaorest देवाः कियन्तः ऋषभकूट पर्वताः प्रज्ञप्ताः ? गौतम ! जम्बूद्वीपे द्वीपे चतुस्त्रिंशत् चक्रवर्त्ति विजयाश्चतुस्त्रिंश द्राजधान्यः चतुस्त्रिंशत्तमिस्रागुद्दाः चतुस्त्रिशत्खण्डप्रपातगुहाः - चतुस्त्रिंशत्कृतमालका देवाः चतुस्त्रिंशभक्तमालका देवाः चतुस्त्रिंशत्-ऋषभकूटपर्वताः ः प्रज्ञप्ताः । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्तो महाहूदाः प्रज्ञप्ताः ? गौतम ! षोडश महाहूदाः प्रज्ञप्ताः
जम्बूद्वीपे खल भदन्त ! द्वीपे कियत्यो महानद्यो वर्षधरप्रवहाः कियत्यो महानद्यः कुण्डप्रवहाः प्रज्ञप्ताः ? गौतम ! जम्बूद्वीपे द्वीपे चतुर्दश महानद्यो वर्षधर प्रवहाः, षट्सप्ततिमहानद्यः कुण्डप्रवहाः एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे नवतिर्महानयो भवन्तीत्याख्यातम् । जम्बूद्वीपे द्वीपे भरतैरवतयोः कति महानद्यः प्रज्ञप्ताः ? गौतम ! चतस्रो महानयः प्रज्ञप्ताः तद्यथा - गङ्गा सिन्धुः रक्ता रक्तवती, तत्र खलु एकैका महानदी चतुर्दश चतुर्दश सलिला सहस्रैः समग्रा पूर्वपश्चिमेन लवणसमुद्रं समर्पयति, एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे भरतैरवतयो वर्षयोः पट्पञ्चाशत् सलिला सहस्राणि भवन्तीत्याख्यातम् । जम्बूद्वीपे खलु भदन्त ! द्वीपे मत हैरण्यवतयोर्वषयोः कतिमहादधः प्रज्ञप्ताः ? गौतम ! चढत्रो महानयः प्रज्ञप्ताः तद्यथा - रोहिदा रोहितांशा सुवर्णकूटा रूप्यकूटा च तत्र खल एकैका महानदी अष्टात्रिंशत्याऽष्टाविंशत्या सलिला सहस्रैः समग्रा पूर्वपश्चिमेन लवणसमुद्रं समर्पति एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे हेमवत हैरण्यवतवर्षयो द्वदिशोत्तरसलिलासहस्रं भवतीत्याख्यातम् इति । जम्बूद्वीपे खलु भदन्त ! द्वीपे हरिवर्षरम्यकवर्षयोः कति महानद्यः प्रज्ञप्ताः ? गौतम ! चतस्रो महानद्यः प्रज्ञप्ता, हरि, हरिकान्ता, नरकान्दा, नारीकान्ता च तत्र खलु एकैका महानदी पट्पञ्चाशता सलिलासहस्रैः समग्रा पूर्वपश्चिमेन लवणसमुद्रं समर्पति, एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे हरिवर्षरम्यकवर्षयोः द्वे चतुर्विंशति सलिला सदसे भवत इत्याख्यातम् । जम्बूद्वीपे खलु भदन्त ! द्वीपे महाविदेह वर्षे कति नहानद्यः प्रज्ञप्ताः ? गौतम ! द्वे महान प्रज्ञप्ते, तद्यथा - शीता च शीतोदा च तत्र खलु एकैका महानदी पञ्चभिः पञ्चभिः सलिला सहस्रैः द्वात्रिंशता च सलिला सहस्रैः समग्रा पूर्वपश्चिमेन लवणसमुद्रं समर्पयति एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे महाविदेहवर्षे दशसलिलाशतसहस्राणि चतुःष्टि सहिला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org