________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ६ रोहितांसामहानदीप्रपातादि निरूपणम् ६१ द्वे पट्सप्तते योजनशते षट्चैकोनविंशतिभागान् योजनस्य उत्तराभिमुखी पर्वतेन गत्वा महाघटमुखप्रवृत्तिकेन मुक्तावलिहारसंस्थितेन सातिरेकयोजनशतिकेन प्रपातेन प्रपतति । रोहितांसा नाम महानदी यतः प्रपतति अत्र खलु महती एका जिविका प्रज्ञप्ता । सा खलु जिहिका योजनमायामेन अर्द्ध त्रयोदशयोजनानि विष्कम्भेण क्रोश बाल्पेन मकरमुखविवृत. संस्थानसंस्थिता सर्ववज्रमयी अच्छा; रोहितांसा महानदी यत्र प्रपतति अत्र खलु महदेकं रोहितांसा प्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम् , तद् विशं योजनशतमायाम विष्पम्भेण, त्रीणि अशीतानि योजनशतानि किश्चिद्विशेषोनानि परिक्षेपेण, दश योजनानि उद्वेधेन अच्छम्०, कुण्डवर्णको यावत् तोरणाः । तस्य खलु रोहितांसा प्रपातकुण्ड'स्य बहुमध्यदेशभागे अत्र खलु एको रोहितांसा नाम द्वीपः प्रज्ञप्तः, षोडशयोजनानि आयामविष्कम्भेण सातिरेकाणि पञ्चाशतं योजनानि परिक्षेपेण, द्वौ क्रोशावुच्छ्रितो जलान्तात् , सर्वरत्नमयः अच्छः श्लक्ष्णः० शेषं तदेव यावद् भवनम् अर्थश्च भणितव्य हति, तस्य खलु रोहितांशाप्रपातकुण्डस्य आत्तराहेण तोरणेन रोहितांसा महानदी प्रव्यूढा सती हैमवतं वर्षमियती २ चतुर्दशभिः सलिलास. हौः आपूर्यमाणा २ शब्दापातिवृत्तवैताढयपर्वतमर्द्धयोजनेनासम्प्राप्ता सती पश्चिमाभिमु. ख्यावृत्ता सती हैमवतं वर्ष द्विधा विभनमाना २ अष्टाविंशसा सलिलासहस्रः सनग्रा अधो जगतीं दारयित्वा पश्चिमेल गस गुद्रं समर्पयति । रोहितांसा खलु प्रबहे अर्द्ध त्रयोदशयोजनानि विष्कम्भेण क्रोशमुद्वेधेन, तदनन्तरं च खलु मात्रया २ परिवर्द्धमाना १ मुखमूले पञ्चविंश योजनशतं विष्कम्भेण अर्धतृतीयानि योजनानि उद्वेघेन उभयोः पार्श्वयोः द्वाभ्यां परमवरवेदिकाभ्यां द्वाभ्यां च वनषण्डाभ्यां संपरिक्षिप्ता ॥ सू० ६ ॥ ___टीका-'तस्स ' इत्यादि । 'तस्स णं पउमदहरस' तस्य खलु पद्मदस्य 'उत्तरिल्लेणं तोरणेणं' औत्तराहेण-उत्तरदिग्भवेन तोरणेन-बहिरिण 'राहियंसा महाणई पबुढा समाणी' रोहितांसा-तन्नाम्नी महानदी प्रव्यूढानिःसृता सती 'दोण्णि छायत्तरे जोयणसर छच्च एगृ. णवीस इभाए जोयणस्स' षट् सप्तते-षट् सप्तत्यधिके द्वे योजनशते पदचैकोनविंशतिभागान योजनस्य एतावती भुवम् 'उत्तराभिमुही पञ्चएणं गंता' उत्तराभिमुखी हैमवत् क्षेत्राभिमुखी सा नदी पर्वतेन गत्वा 'महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगजोयणसइ. एणं पवाएणं परडई' महाघटमुखेभ्यः प्रवृत्तिः निस्सरणं यस्य-प्रपातस्य तेन-महाघटमुख प्रवृत्तिकेन तथा-मुक्तावलिहारसंस्थितेन, तथा-सातिरेकं-किञ्चिदधिकं योजनशतं यत्र तेन सातिरेकयोजनशातिकेन-किश्चिदधिकशतयोजनविशिष्टेन उक्तत्रयविशेषणविशिष्टप्रपातेन प्रपतति । 'रोहियंसा णाम महाणई जो पवडई' रोहितांसा नाम्नी महानदी यतः-यस्मात स्थानात् प्रपतति, 'एत्थ णं महं एगा जिब्भिया पण्णत्ता' अत्र खलु प्रपतनस्थाने महती अतिदीर्धा एका जिबिका-तदाकारं विशेषवस्तु, प्रज्ञप्ता-कथिता, 'सा णं जिब्भिया जोयणं आयामेणं अद्ध तेरस जोयणाई विक्खंभेणं, कोस बाहल्लेणं' सा खलु जिहिका योजनमेकम् आयामेन-दैर्येण, अर्द्धत्रयोदश योजनानि विष्कम्भेण-विस्तारेण, क्रोश बाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org