SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चमवक्षस्कारः सु. ४ इन्द्रकृत्यावसर निरूणिम् ६०९ सर्व सत्या सर्ववलेन सर्वसमुदायेन सर्वादरेण सर्वविभूत्या सर्वविभूषया सर्वसंभ्रमेण सर्वनाटक: सर्वोपरोधैः सर्व पुष्पगन्धमाल्यालङ्कारविभूषया सर्वादिव्यत्रुटितशब्दसधिना देन महत्या ऋद्धया यावत् रवेण निजकपरिवारसंपरिवृताः स्वकानि स्वकानि यानविमानवाहनानि दुरूढाः सन्तः अकालपरिहीणं शक्रस्य यावत् अन्तिके प्रादुर्भवत । ततः खलु स हरिगषी देवः पादात्यनी अधिपतिः शक्रेण३ यावत् एवम् उक्तः सन् हृष्टतुष्ट यावत् एवं देवा ! इति आज्ञायाः विनयेन वचनं प्रतिशृणोति, प्रतिश्रुत्य शक्रस्य देवेन्द्रस्य देवराजस्य अन्तिकात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य यत्रैव सभायां सुधर्मायां मेघोवरसित गम्भीरमधु रतरशब्दां योजनपरिमण्डलां सुघोषां वण्टां तत्रैव उपागच्छति, उपागत्य तां मेधौवरसित गम्भीरमधुरतरशब्दां योजनपरिमण्डलां सुवोषां घंटां त्रिः कृत्वः उल्लालयति ततः खलु तस्यां मेवौघर सितगम्भीर• मधुरतरशब्दायां योजन परिमण्डलायां सुघोषायां घण्टायां त्रिः कृत्वः उल्लालितायां सत्यां सौधर्मे कल्पे अन्येषु एकोनेषु द्वात्रिंशद्विमानावासशतसहस्त्रेषु अन्यानि एकोनानि द्वात्रिंशत् घण्टाशतसहस्राणि यमकसमकं कणकणारावं कर्तु प्रवृत्तानि अभवत् इति । ततः खलु सौधर्मः कल्पः प्रासादविमान निष्कुटापतितशब्द समुत्थितघण्टा प्रतिश्रुतशतसहस्रसंकुलो जातश्चाप्यभूत् इति । ततः खलु तेषां सं.धर्मकल्पवासिनां बहूनां वैमानिकानां देवानाञ्च देवीनां च एकान्तरविप्रसक्तनित्यप्रमत्त विषयसुखमूर्च्छितानाम् सुस्वरघण्टारसित विपुल वोलपूरितचपल परिबोधने कृते सति घोषणकुतूहलदत्तकर्णैकाग्रचित्तोपयुकमानसानं सपदात्यनीकाधिपति देवः तस्मिन् घण्टारवे निशान्त प्रतिशान्ते सति तत्र तत्र तस्मिन् तस्मिन् देशे महता महता शब्देन उद्घोषयन् उद्घोष" न् एवम् अवादीदिति । हन्त ! शृण्वन्तु भवन्तो बहवः सौधर्म कल्पवासिनो वैमानिकदेवाः देयश्च सौधर्मकल्पपतेरिदं वचनं हितसुखायम्-आज्ञापयति खलु भो शक्रः तदेव यावत् अन्तिकं प्रादुवत इति, ततश्च ते देवा देव्यव एतमर्थ श्रुत्वा हृष्टतुष्ट यावत् हृदया ! अप्येककाः चन्दनप्रत्ययम् एवं पूजन प्रत्यम् सत्कारप्रत्ययम् सन्मानप्रत्ययम् जिनभक्तिरागेण अध्येककाः तत् जीतमेतत् एवमादि इत्यादिकं कृत्वा यावत् प्रादुर्भवन्ति इति । ततः सल सः शक्रः देवेन्द्रो देवराजः तान् वैमानिकान् देवान् देवींश्व अकालरिहीनं चेव अन्तिकं प्रदुर्भवतः प्रादुर्भवन्तीश्च पश्यति दृष्ट्वा हृष्टः पालकं नाम आभियोगिकं देवं शब्दयति शब्दयित्वा एवमवादीत् क्षिप्रमेव भो ! देवानुप्रियाः अनेकस्तम्भशतसन्निविष्टं लीलास्थितशाल मञ्जिकाकलितम् ईहामृगऋषभतुरगनरम कर विहगव्यालककिन्नररुरुशर भचामरकुञ्जखनलता पद्मलताभक्तिचित्रम् स्तम्भोग वज्रवेदिकापरिगताभिरामम् विद्याधरयमलयुगल यन्त्रयुक्तमित्र अर्चिसहस्रमालिनीकम् रूपकसहस्त्रकलितंम् भावमानं बाभास्यमानं चक्षुलोचनलेश्यं सुखस्पर्श सश्रीकरूपं घण्टावलिकमधुरमनोहर सदृशम् शुभं कान्तं दर्शनीयम् मिमिमिसेन्तमणिरत्नघण्टिकाजालपरिक्षिप्तम् योजन सहस्रविस्तीर्ण पञ्चशतोच्चं शीघ्रं त्वरितं जयनं निर्वादि दिव्यम् यानविमानं विकुर्वस्व विकुर्य एताम् आज्ञप्तिकां प्रत्यय ॥ सू० ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy