SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रशप्तिसूत्रे पत्यं कारयन् पालयन् महताहतगीतवादिततन्त्रोतलतालत्रुटितघनमृदङ्गपटुपटहवादितरवेण दीव्यान भोग भोगान् भुञ्जानो विहरति । ततः खलु तस्य शक्रस्य देवेन्द्रस्य देवराज्ञः आसनं चळति, ततः खलु स शक्रो यावत् आसनं चलितं पश्यति, दृष्ट्वा अवधि प्रयुङ्क्ते प्रयुज्य भग वन्तं तीर्थङ्करम् अधिना आभोगयति आपोप हृष्टतुष्टचित्त आनन्दितः प्रीतिमनाः परमसौमनस्यितः हर्षवशविसर्पद् हृदयः धाराहतकदम्बकुसुम रोमाञ्चितोच्छ्रितरोमकूपः विकसितवरकमलनयनवानः प्रचलितवरकट कत्रुटिककेयूरमुकुटकुण्डलः हारविराजमानवक्षस्कः प्रालम्बप्रलम्बमानघोलद् भूषणधरः ससंभ्रमं त्वरितं चपलं सुरेन्द्रः सिंहासनादभ्युत्तिष्ठति, अभ्युस्थाय पादपीठ'त् प्रत्यवरोहति प्रत्यवरुह्य वैडूर्यवरिष्ठरिष्टाञ्जननिपुणोचितमिसिमिसिन्त मणिरत्नमण्डिते पादुके अवमुश्चति आमुचप एकशाटिकम् उत्तरासङ्गं करोति कृत्वा अञ्जलि मुकुलिताग्रहस्त: तीर्थङ्कराभिमुखः सप्ताष्टपदानि अनुगच्छति अनुगत्य वामं जानुम् आकुश्चयति आकुच्य दक्षिणं जानुं धरणीतले निहत्य त्रिःकृत्वः मूर्दानं धरणीउले निवेशयति, निवेश्य ईषत् प्रत्युन्नमति, प्रत्युन्नमित्वा कटकत्रुटि कस्तम्भितौ भुजौ संहरति संहृत्य करतल परिगृहीतं दशनखं शिरसावर्त मस्तके अञ्जलिं कृत्वा एवमवादीत्-नमोऽस्तु खलु अरिहन्तृणां भगवताम् आदिकराणां तीर्थकराणां स्वयं संवुद्धानां पुरुषोत्तमानां पुरुषसिंहानां पुरुषवरपुण्डरीकाणां पुरुषवरगन्धहस्तिनां लोकोत्तमानां लोकनाथानां लोकहितानाम् लोकप्रदीपानां लोकप्रद्योतकराणाम् अभयदायकानाम् चक्षुर्दायकानां मार्गदकायानां शरणदायकानां जीवदायकानां बोधिदायकानां धर्मदायकानां धर्मदेशकानां धर्मनायकानां धर्मसारथिनां धर्मवरचातुरन्तचक्रवर्तिनां दी: त्राणं शरणं गतिश्च प्रविष्टा अप्रतिहतज्ञानदर्शनधराणां विवृत्तछानां जिनानाम् जाकाना तीर्णानां तारकानां बुद्धानां बोधकानां मुक्तानां मोचकानां सर्वज्ञानां सर्वदर्शिनां शिवमचलमरुजमनन्तमक्षयमव्यावाधमपुनरावृत्ति सिद्धिगतिनामधेयं स्थानं संप्राप्तानां नमो जिनानां जितभयानाम् नमोऽस्तु खलु भगवतस्तीर्थंकरस्य आदिकरस्य यावत् संपाप्नुकामस्य वन्दे खलु भगवन्तं तत्र गतम् इइगतः पश्यतु मां भगवान् तत्रगतः। इगतम् इतिकृत्वा वन्दते नमस्यति वन्दित्वा नमस्थित्वा सिंहासनवरे पौरस्त्याभिमुखः संनिषण्णः ततः, खलु तस्य शक्रस्य देवेन्द्रस्य देवराजस्य अयमेतावद्रूपो यावत् साल्पः समुदपद्यत उत्पन्नः खलु-भो जम्बूदीपे द्वीपे भगवस्तीर्थकरः तस्माजी मेतत्-अतीतप्रत्युस्पन्नानागतानां शक्राणां देवेन्द्राणाम् देवरानानां तीर्थकराणां जन्ममहिमानं कर्त तदगच्छामि खलु अहमपि भगवतस्तीर्थकस्य जन्मम हिमानं करोमीतिकृत्वा एवं संप्रेक्षते संप्रेक्ष्य हरिणैगमेपीतिनामानं पदात्यनीकाधिपति देवं शब्दयति शब्दायित्वा एवमवादीत क्षिप्रमेव भो देवानांप्रिय ! सभायां सुधर्मायां मेघौधरसितां गंभीरमधुरतरशब्दाम् योजनपरिमण्डलां सुघोषां सुस्वरां घण्टां त्रिः कृत्व: उल्लालयन् उल्लालयन् महता महता शब्देन उद्घोषयन् उद्घोषयन् एवं वदत आज्ञापयति भोः शक्रो देवेन्द्रो देवराजः गच्छति खलु भो शक्रो देवेन्द्रो देवराजः जम्बूद्वीपे द्वीपे भगवतस्तीर्थकरस्य जन्ममहिमानं कर्तुं तत् यूयमपि खलु देवानुप्रियाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy