SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ३ पौरस्त्यरुचकनिवासिनीनामवसरवर्णनम् ५८३. सर्वप्रभा ६, चैत्र, श्रीः होश्चैव उत्तरतः॥१॥ तथैव यावद् वन्दित्वा भावतस्तीर्थङ्करस्य तीर्थङ्करमातुश्च उत्तरेण चामरहस्तगताः आगायन्त्यः परिगायन्त्यः तिष्ठन्ति । तस्मिन् काले तस्मिन् समये विदिगुरुवस्वास्तव्याः चतस्रो दिक्कुमारीमहत्तरिकाः यावद् विहरन्ति, तद्यथा-चित्रा च १, चित्रकनका २, शतेरा ३, सौदामिनी ४ । तथैव यावद न भेतव्यमिति कृत्वा भगवतस्तीर्यङ्करस्य तीर्थङ्करमातुश्च चतसृषु विदिक्षु दीपिकाहस्तगता आगायन्त्यः परिगायन्त्यः तिष्ठन्ति इति । तस्मिन्काले तस्मिन् समये मध्यरुचकवास्तव्याः चतस्रो दिक्कुमारीमहत्तरिकाः स्वकैः स्वकैः कूटैः तथैव यावद् विहरन्ति, तद्यथा रूपा १, रूपासिका २, सुरूपा ३, रूपकावती ४ । तथैव यावद् युष्माभि ने भेतव्यमिति कृत्वा भगवतस्तीर्थङ्करस्य चतुरगुलबर्ज नाभिनालं कल्पयन्ति, कल्पयित्वा विदरकंखनन्ति, खनित्वा विदरके नाभिम् निदधति। निधाय रत्नश्च वन्त्रैश्च पूरयन्ति पूरयित्वा हरतालकाभिः पीठं बध्नन्ति, पीठं बध्वा त्रिदिशि त्रीणि कदलीगृहाणि विकुर्वन्ति, ततः खलु तेषां कदलीगृहाणां बहुमध्यदेशभागे त्रीणि चतु शालकानि विकुर्वन्ति, ततः खलु तेषां चतुःशालकानां बहुमध्यदेशभागे त्रीणि सिंहासनानि विकुर्वन्ति, तेषां खलु सिंहासनानाम् अयमेतद्रूपो वर्णव्यासः प्रज्ञप्तः सौं वर्णको भणितव्यः । ततः खलु ताः रुचकमध्यवास्तव्याः चतस्रो दिक्कुमार्यों महत्तराः यत्रैव भगवान् तीर्थङ्करः तीर्थङ्कारमाता च तत्रैव उपागच्छन्ति, उपागत्य भगवन्तं तीर्थङ्करं करतल संपुटेन गृह्णन्ति तीर्थङ्करमातरं च बाहाभिहन्ति, गृहीखा यत्रैव दाक्षिणात्यं कदलीगृहं यत्रैव चतुः सालकं यत्रैव सिंहासनं तत्रैव उपागच्छन्ति, उपागत्य भगवन्तं तीर्थकरं तीर्थङ्करमातरं च सिहासने निषादयन्ति, निषाद्य शतपाकसहस्रपाकैः तैलैः अभ्यङ्गयन्ति, अभ्यङ्गयिखा सुरभिणा गन्धवर्तकेन उद्वर्तयन्ति, उद्वत्यै भगवन्तं तीर्थङ्करं करतलपुटेन तीर्थङ्करमातरं च बाह्वोर्गृहन्ति गृहीत्वा यत्रैव पौरस्त्यं कदलीगृहं यत्रैव चतुः शालं यचैव सिंहासनं तत्रैव उपागच्छन्ति, उपागत्य भगवन्तं तीर्थङ्करं तीर्थङ्करमातरं च सिंहासने निषादयन्ति, निषाध त्रिभिरुदकैर्मजयन्ति, तद्यथा-गन्धोदकेन १, पुष्पोदकेन २, शुद्धोदकेन ३, मज्जयित्वा सर्वालङ्कारविभूषितौ कुर्वन्ति, कृत्वा भगवन्तं तीर्थङ्करं करतलपुटेन तीर्थङ्करमातरं च बाहाभिः गृह्णन्ति, गृहीत्वा यत्रैवौत्तराई कदलीगृहं यत्रैव चतुःशाळकं यत्रैव सिहासनं तत्रैव उपागच्छन्ति उपागत्य भगवन्तं तीर्थङ्करं तीर्थङ्करमातरं च सिंहासने निषादयन्ति, निषाद्य आभियोगान् देवान् शब्दयन्ति, शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! क्षुद्रहिमवतो वर्षधरपर्वतात् गोशीर्षचन्दनकाष्ठानि संहरत ततः खलु ते आभियोगाः देवाः ताभिः रुचकमध्यवास्तव्याभिः चतमृभिः दिक्कुमारीमहत्तरिकाभिः एवमुक्तासन्तः हृष्टतुष्टाः यावद् विनयेन वचनं प्रतीच्छन्ति, प्रतीष्य क्षिप्रमेव क्षुद्रहिमवतो वर्षधरपर्वतात् सरतानि गोशीर्षचन्दनकाष्ठानि संहरन्ति ततः खलु ताः मध्यरुचकवास्तव्याः चतस्रो दिक्कुमारीमहत्तरिकाः शरकं कुर्वन्ति, कृत्वा अरणिं घटयन्ति अरणिं घटयित्वा शरकेण अरणिं मथ्नन्ति, मथित्वा अग्नि पातयन्ति पातयित्वा अग्नि सन्धुक्षन्ति सन्धुक्ष्य गोशीर्षचन्दनकाष्ठानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy