SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे छाया-तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र खलु महदेकं भवनं प्रज्ञप्तम् , क्रोशमायामेन अर्द्धक्रोश विष्कम्भेण देशोनकं क्रोशमूर्ध्वमुचनत्वेन अनेकस्तम्भशतसंनिविष्टं प्रासादीयं दशनीयम् । तस्य खलु भवनस्य त्रिदिशि त्रीणि द्वाराणि प्रज्ञसानि, तानि खलु द्वाराणि पञ्चधनुःशतानि ऊर्यमुच्चत्वेन, सार्द्धतृतीयानि धनु शतानि विष्कम्भेण, ताव देव च प्रवेशेनाश्वेतानि वरकनजस्तूपिकानि यावत् वनमालाः ज्ञातव्याः। तस्य खलु भवनस्य अन्तः बहुसमरणीओ भूमिभागः प्रज्ञप्तः स यथा नामकः आलिङ्गपुष्कर इति वा । तस्य खलु बहुमध्यदेशभागे, अन खलु महती एका मणिपीठिका प्रज्ञप्ता । सा खलु मणिपीठिका पञ्चधनुः शतानि आयामविष्कम्भेण, सार्द्धवतीयानि धनुःशतानि बाहल्येन, सर्वमणिमयी अच्छा० । तस्याः खलु मणिपीठिकायाः उपरि अत्र खलु महदेकं शयनीयं प्रज्ञसम् । शयनीयवर्णको भणितव्यः। तत् खलु पदमम् अन्येन अष्टशतेन पदमानां तदोच्च. त्वप्रमाणमात्राणां सर्वतः समन्तात् संपरिक्षिप्तम् । तानि खलु अर्द्धयोजनमायामविष्कम्भेण, क्रोशं बाहल्येन, दश योजनानि उद्वेधेन क्रोशमुच्छ्रितानि जलान्तात् सातिरेकाणि दश योजनानि सर्वाग्रेण तेषां खलु पद्मानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-वन्मयानि मूलानि यावत् कनकमयी कर्णिका । सा खलु कणिका क्रोशमायामेन, अद्धक्रोशं वाहल्येन, सर्वकनकमयी अच्छा इति । तस्याः खलु कर्णिकाया उपरि बहुसमरमणीयो यावद मणिभिरुपशोभितः। तस्य खलु पद्मस्य अवरोत्तरे उत्तरे उत्तरपौरस्त्ये अत्र खलु श्रिया देव्याः चतसृणां सामानिकसाहस्रीणां चतस्रः पद्मसाहस्त्र्यः प्रज्ञप्ताः । तस्य खलु पद्मस्य पौरस्त्ये अत्र खलु श्रिया देव्याः चतसृणां मइत्तरिकाणां चत्वारि पद्मानि प्रज्ञप्तानि, तस्य खलु पद्मस्य दक्षिणपौरस्त्ये श्रिया देव्याः आभ्यन्तरिकायाः परिषदः अष्टानां देवसाहस्त्रीणाम् अष्ट पद्मसाहस्त्र्यः प्रज्ञप्ताः । दक्षिणे मध्यमपरिषदौ दशानां देवसाहस्रीणां दश पद्भसाहस्थ्यः प्रज्ञप्ताः । दक्षिणपश्चिमे बाह्यायाः परिषदो द्वादशानां देवताहस्रोगांद्वादश पद्मसाइस्त्र्यः प्रज्ञताः, पश्चिमे सप्ता. नामनीकाधिपतीनां सप्त पद्मानि, प्रज्ञप्तानि। तस्य खलु पद्मस्य चतुर्दिशि सर्वतः समन्तात् अत्र खलु श्रिया देव्याःषोडशानामात्मरक्षकदेवसाहस्रीणां षोडश पद्मसाहस्यः प्रज्ञप्ताः तत् खलु त्रिभिः पद्मपरिक्षेपैः सर्वतः समन्तात् संपरिक्षिप्तम् , तद्यथा-आभ्यन्तरकेण१, मध्यमेन२, बाह्यकेन ३ आभ्यन्तरके पद्मपरिक्षेपे द्वात्रिंशत् पद्मशतसाहस्यः प्राप्ताः, मध्यमके पदमपरिक्षेपे चत्वारिंशत् पद्मशतसाहस्थः प्रज्ञप्ताः, बाह्यके पद्मपरिक्षेपे अष्टचत्वारिंशत् पद्मशतसाहस्यः प्रज्ञप्ताः । एवमेव सपूर्वापरेण त्रिभिः पद्मपरिक्षेपैः एका पद्मकोटीविंशतिश्च पद्मशतसाहस्त्र्यो भवन्तीति आख्यातम् । _ अथ के नार्थेन भदन्त ! एवम्मुच्यते पद्महदो पद्महदः, गौतम । पद्म इदः खलु तत्र२ देशे तत्र२ बहूनि उत्पलानि यावत् शतसहस्रपत्राणि पद्महदवर्णाभानि श्रीश्चात्र देवी महर्दिका यावत् पल्योपमस्थितिका परिवसति तद् एतेनार्थेन यावत अदुत्तरम् ( अथ ) च खलु गौतम ! पद्महूदस्य शाश्वतं नामधेयं प्रज्ञप्तम् । न कदाचित् नासीद् म० ॥ सू०३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy