________________
प्रकाशिका टोका सू० ४ जम्बूद्वीपप्राकारभूतजगत्याः वर्णनम्
३३ एतदव्याख्याऽनुपदं गता । पुनस्ताः पद्मलतादेय सर्वाः लताःसर्वरत्नमय्यः सर्वात्मनाकर्केतनादिरत्नमय्यः पुन अच्छाः यावत् प्रतिरूपाः-अच्छादि प्रतिरूपान्तानां सङ्ग्रहोऽथेश्वास्मिन्नेव,सूत्रे पूर्व कृतः। तस्याः पूर्वोक्तायाः खलु पद्मवरवेदिकायाः तत्र तत्र देशे तस्मिंस्तस्मिन् देशे तत्र तत्र तस्यैव देशस्यैकदेशे अक्षय स्वस्तिकानि प्रज्ञप्तानि कथितानि तानि अक्षय स्वस्तिकानि कीदृशानि ? इत्याह-सर्वरत्नमयानि सर्वात्मना रत्नमयानि, अच्छानि यावत् प्रतिरूपाणि अच्छादि प्रतिरूपपर्यन्तपदानां संग्रहो विवरणं च प्राग्वत् । पूर्वतोऽत्र नपुंसककृतो विशेषः । सम्प्रति पद्मवरवेदिकाशब्दार्थ गौतमः पृच्छति
___ अथ केन अर्थन कारणेन भदन्त ! एवम् इत्थम् उच्यते कथ्यते यत् पद्मवरवेदिका २ इति ? किमर्थमादायास्याः पद्मवरवेदिकेति शब्दप्रवृत्ति तेत्यर्थः । इति पृष्टो भगवान् गौतमं प्रत्याह-हे गौतम ! पद्मवरवेदिकायाः तत्र तत्र-तस्मिंस्तस्मिन् देशे तत्र तत्र तस्यैव देशस्यैकदेशे वेदिकासु-उपवेशनार्थमत्तगजाकाररूपासु वेदिका बाहासु वेदिकायाः बाहासुः पार्श्वेषु वेदिकापुटान्तरेषु वेदिकयोयोर्यत् पुट-परस्परमेलनं तदन्तरेषु तन्मध्येषु स्तम्भेषु प्रसिद्धेषु स्तम्भबाहासु स्तम्भपार्श्वषु, स्तम्भशीर्षेषु स्तम्भाग्रभागेषु, स्तभपुटान्तरेषु द्वयो स्तम्भयोः सन्धिमध्येषु सूचीषु फलकद्वयसंधानार्थप्रतनुकीलकरूपासु सूचिषु सूचीमुखेषु सूचीनां फलकान्तः प्रवेशासन्नप्र देशेषु सूचीफल केषु सूचीसंयोजित फलकप्रदेशेषु सूचीपुटान्तरेषु सूचीद्वयमेलनमध्येषु पक्षेषु वेदिकाया अवयवविशेषेषु तथा पवक्षाहासु वेदिका पार्वेषु, वहूनि-प्रचुराणि उत्पलानि-चन्द्रविकाशीनि कमलानि पद्मानि-सूर्यविकाशीनि कमलानि कुमुदानी कैरवाणि, तान्यषि चन्द्रविकाशीनि श्वेतरक्तादिवर्णानि भवन्ति, तानि सुभगानि सुन्दराणि, सौगन्धिकानि- कहलाराणि, श्वेतवर्णानि सुगन्धीनि कमलानि, पुण्डरीकाणि-श्वेत कमलानि, तान्येव महान्ति महापुण्डरीकाणि, शतपत्राणि-पत्रशतविशिष्टानि कमलानि सहस्रपत्राणि पत्रसहस्रयुक्तानि कमलानि एतानि सर्वाणि सर्वरत्नमयानि, सर्वात्मना कर्केतनादि रत्नमयानि, अच्छानि यावत् प्रतिरूपाणि अच्छादिप्रतिरूपपर्यन्तपदानां संग्रहो विवरणं च प्रागवत् । पुनस्तानि कथम्भूतानि ? इत्याह-महावार्षिकच्छत्रसमानानि महान्ति विशालानि यानि वार्षिकानि वर्षाकालिकानि जलधारानिवारणार्थानि च्छत्राणि तैः समानानि-समाकाराणि प्रज्ञप्तानि-कथितानी हे श्रमण आयुष्मन् ! गौतम ? सा पद्मवर वेदिका एतेन अनन्तरोक्तेन अर्थेन समुचितेनार्थेन एवम् इत्थम्-उच्यते कथ्यते यत् पद्म वरवेदिका पदमवरवेदिकेति । अथ च खलु अत एवास्याः पद्मवर वेदिका पद्मबर वेदिकेति शाश्वतं नामधेयं प्रज्ञप्तमिति । पुनौतमः पृच्छति-हे भदन्त पद्मवरवेदिका खलु किं शाश्वती उत अशाश्वती ! इति पृष्टो भगवानाह-हे गौतम स्याच्छाश्वती स्यादशाश्वती । अत्र स्याच्छब्दः कथञ्चिदथेको निपातःतेन कथञ्चिच्छाश्वती कथञ्चिदशाश्वती विद्यते । पुनर्विशेषजिज्ञासया गौतमः पृच्छति-"से केणटेणं' इत्यादि । अथ केना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org