SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३४ जम्बूद्वीपप्रज्ञप्तिसूत्रे न केन प्रकारेण शाश्वती केन प्रकारेण च अशाश्वतीति प्रश्नः । भगवानाह हे गौतम ! द्रव्यार्थतया - द्रव्यार्थिकनयेन शाश्वती नित्या पर्यायार्थिकनयेन प्राह-वर्णपर्यायैः कृष्णा दिभिः तथा गन्धपर्यायैः सुरभिः प्रभृतिः, रसपययैः तिक्तादिभिः स्पर्शपर्यायैः कठिन त्वादिभिः अशाश्वतो अनित्या तेषां वर्णादीनां प्रतिक्षणं कियत् कालान्तरं वाऽन्यथाऽन्यथा संभवात् । एवं च नित्यत्वानित्यत्वयोर्विरुद्धयोरपि धर्मयोद्रव्यार्थिक पर्यायर्थिक नयाभ्यामेकस्मिन्नधिकरणेऽवस्थानं सम्भवतीति पर्यवसितम् । एवमुपसंहति सा तेनार्थेन एवम् इत्थमुच्यते स्याच्छाश्वती स्यादशाश्वतीति । एतद्व्याख्या निगदसिद्धा । द्रव्यास्तिकनयवादी स्वमतं द्रढयितुमाह " नात्यन्तासत उत्पादो नापि सतो विद्यते विनाशो वा" अपि च-"नासतो विद्यते भावो नाभावो विद्यते सतः" इति, ततश्च सर्वं वस्तु नित्यमेवेति । इत्थं तन्मते सन्देहः सा पद्मवेदिका किं घटादिवत् द्रव्यार्थत्वेन शाश्वती । आहोस्वित्-सर्वदा शाश्व तीति । इमं सन्देहं गौतमो निराकर्तुं भगवन्तं पुनः पृच्छति कालतः कियच्चिरमिति, पद्मवेदिका खलु हे भदन्त ! कालतः काल माश्रित्य कियच्चिरं कियन्तं कालं या - दवतिष्टते ? अत्र भगवानाह हे गौतम न कदाचिद् नासीत् नव्द्वयस्य प्रकृतार्थं दृढीकारकत्वात् सदैवासीदिती तथा न कदाचित् न भवति अपि तु सदैव भवति तथा न कदा चिद् न भविष्यति - अपि तु सदैव भविष्यति । एवं सर्वमुपसंहरति-अमूच्च भवति च भविष्यति कालत्रयेऽपि अवस्थिति शीलत्वात् । अत एव ध्रुवा - मेरु पर्वतादिवत्स्थरत्वात् नियता- निश्चितत्वात् जीवद्रव्यवत् अत एव शाश्वती समयावलिकादिषु कालवचनवच्छाश्वतत्वात् अतएव अक्षया पुद्गलपुञ्जविघटनेऽपि नवीनपुगलपुञ्जसंक्रमणेन स्वरूपाधिनाशात्, गङ्गा सिन्धु प्रवाहेऽपि पद्मदवत् अतएव अव्यया कदाचिदपि स्वरूपचलनस्यासम्भवत् मानुषोत्त(पर्वताद् बहिः समुद्रवत् अत एव अवस्थिता स्व प्रमाणे सम्यक् स्थिता जम्बूद्वीपादिवत् एवं च स्वप्रमाणावस्थायितया नित्या धर्मास्तिकायादिवत् इति ॥ सू० ४ || " जीवाभिगम सूत्र में पद्मवरवेदिका के वर्णन में ज्यों की त्यों लिखी जा चुकी है अतः वहां से इसे देखना चाहिये यह विस्तृत व्याख्या वज्रमय पद से लगाकर अन्त के नित्यपद तक की गई है। अतः यहां पुनः उसे विस्तार हो जाने के भय से नहीं लिखा है । इसी अभिप्राय को हृदय में છે અને જીવાભિગમ સૂત્ર’માં પદ્મવવેદિકાના વર્ણનમાં આબેહૂબ નિરૂપિત કરવામાં અવી છે. એથી જિજ્ઞાસુઓએ ત્યાંથી વાંચી લેવી. આ સવિસ્તૃત વ્યાખ્યા ત્યાં વમય પદમાંડીને અન્તના નિત્યપદ સુધી કરવામાં આવી છે એથી વિસ્તાર ભયથી અહી ખીજી વખત વ્યાખ્યા For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy