________________
३२
जम्बूद्वीपप्रज्ञप्तिसूत्रे सर्वदा सर्वथा शोभां धारयमाणानि तिष्ठन्ति । तस्याः अनन्तरोक्तायाः खलु पद्मवरवेदिकायाः तत्र तत्र - तस्मिस्नस्मिन् देशे तत्र तत्र तस्य देशस्य तस्मिस्तस्मिन् अवान्तरदेशे बहवः-बहुसंख्या अनेके हयसंघाटका:-अश्वसंघाता:-अश्वसमूहाः एवं गजनरकिन्नर-किंपुरुष-महोरग-गन्धर्व-वृषभाना-संघाटा वोध्याः , ते च हयादिसंघाटा: सर्वरत्नमयाः-सर्वात्मना रत्नमयाः, यावत्-यावत्पदेन-अच्छा:-श्लक्ष्णाः , घृष्टाः , मृष्टाः, नीरजसः, निर्मलाः, निष्पङ्काः, निष्कङ्कटच्छायाः, सप्रभाः, समरीचिकाः सोद्धोताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः; इत्येषां सङ्ग्रहो बोध्यः, तथा प्रतिरूपाः एषां पदानां व्याख्याऽस्मिन्नेव सूत्रे पूर्वं जगतो वर्णनप्रसङ्गे कृता, केबलं स्त्रीपुंसत्व बहुवचनकतो विशेषः, एवम् -इत्यादि संबाटवत् पङ्क्तयोऽपि-हयादीनां श्रेणयोऽपि बोध्याः, तथा हयादीनां वीथयः उभयोः पार्श्वयोरेकैकश्रेणिभावेन यत् श्रेणियुगलं तत् बीथि पदवाच्यम् तद्वहुत्वे वीथयः अनेकश्रेणी हयानि पंक्तिस्तु एकस्यां दिशि अथवा श्रेणिः सा व्यवहियते अतो न पंक्ति-वीथ्योरेकार्थकताशङ्का । एतेषामेव हयगजनरकिन्नरकिम्पुरुष महोरगगन्धर्ववृषभानामष्टानां स्त्री पुसयुग्म प्रतिपादनार्थमाह मिथुनकान्यापि स्त्रीपुंसयुग्मान्यपि हयादिसङ्घाटबदेव वक्तव्यानि ८।
तस्याः पूर्वोक्तायाः खलु पद्मवरवेदिकायाः तत्र तत्र तस्मिंस्तस्मिन् देशे तत्र तत्र तद्देशैकदेशे बहव्यः पद्मलताः पद्मिन्यः नागलताः नागाः वृक्षविशेषाः तद्रूपाः लताः तिर्यकशाखा विस्तार रहितत्त्वाल्लता इवेति नागलताः एवम् अशोकलताः अशोकवृक्षरूपलताः चम्पकलताः चम्पकपुष्पक्षविशेषरूपलताः वनलताः वननार्थकवृक्षविशेषरूपलताः, वासन्तीलताः वासन्तीपुष्पविशेषलताः अतिमुक्तकलताः अतिमुक्तकः तिनिशनामको वृक्षविशेष स्तद्रूपालताः कुन्दलता:-कुन्दनामक पुष्पविशेषलताः श्यामलताः श्यामा वनस्पतिविशेषः शारिवेति प्रसिद्धा तद्रूपा लताः ता अनन्तरोक्ताः पद्मलतादयो लताः कीदृशः ? इत्याह-नित्यं सदा कुसुमिताः पुष्पिताः पुष्पसम्पन्नाः नित्यं मुकुलिता कुइमलिता ईषद्विकासोन्मुखकालिका सम्पन्नाः नित्यं लवकिताः सजातपल्लवलवाः नित्यं स्तबकिता विकासोन्मुखाकलिका सम्पन्ना नित्यं गुल्मिताः स्तम्विताः काण्डरहितावयव सम्पन्नाः। नित्यं गुच्छिताः पत्रपुष्पगुच्छसमूहसम्पन्नाः नित्यं यमलिताः सजातीयलतायुग्मपरिवेष्टिताः नित्यं युगलिताः सजातीय-विजातीयलताद्वयपरिवेष्टिताः नित्यं विनमिताः फलपुष्पादिसारेण विशेषेण नम्रभावं प्रापिताः, नित्य प्रणमिताः फल पुष्पादिभारणनम्रभावं प्रापयितुमारब्धाः नम्रभावोन्मुखा इति भावः, नित्यं मुविभक्तप्रतिपिण्डमजयवतंसकधराः सुविभक्तः सम्यग् विभागयुक्तो यः प्रतिमजयंवतंसकः प्रतिमब्जरी प्रतिगता प्रतिपल्लवस्थिता या मजरी-पुष्पमठजरी सैवावतंसकः शिरोभूषणविशेषः तस्य धराः धारिकाः, एवं सति ताः पद्मलतादयो लताः नित्यं कुसुमितमुकुलितलवकित स्तबकितगुल्मितयमलितयुगलितविनमितप्रणमिवसुविभक्तप्रतिमनर्यवतंसकधराः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org